SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ षष्ठमाहिकम् — शब्दपरीक्षा [ पदवाक्यस्वरूपविमर्शः] ननु नाद्यापि शब्दस्य निरणायि प्रमाणता। . *बीजं पदार्थवाक्यार्थबुद्धेर्न हि निरूपितम् ।। — उच्यते - किमत्र निरूपणीयम् ? यदनन्तरं हि यद्भवति तत्तस्य निमित्तम्। पदवाक्यश्रवणे सति पदार्थवाक्यार्थसंप्रत्ययो भवतीति ते एव तत्र निमित्तम् ॥ - किं पुनरिदं पदं नाम ? किच वाक्यमिति। उक्तमत्र वर्गसमूहः पदम् , पदसमूहो वाक्यमिति ॥ [स्फोटवादोपक्षेपः] ननु ! एतदेव न क्षमन्ते। न हि वर्णानां समूहः कश्चिदस्ति वास्तवः। तेन कुतस्तत्समूहः पदं भविष्यति ? तदभावाच्च न 'तरां पदसमूहो वाक्यमवकल्पते। न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन वाचकत्वमुपपद्यते। तस्मादन्य एव स्फोटात्मा शब्दोऽर्थप्रतिपादक इति प्रतिजानते॥ ___ * बीज-कारणम् । पदस्वरूपस्य, वाक्यस्वरूपस्य, तेषां अर्थप्रत्याय प्रकारस्य च दुर्निरूपत्वात् शब्दप्रामाण्यं दुरवस्थमेवेत्यर्थः ॥ 1 नितरां-क.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy