________________
142
न्यायमञ्जरी . [प्रकृतविचारस्य शब्दप्रामाण्योपयोगित्वम् ]
योऽपि 'व्याघ्र आयातः' इत्युक्ते शूरकातरनराधिकरण नानाकार'. कार्योत्पादः–स बाह्येऽर्थे व्याघ्रागमानादौ प्रतिपन्ने वासनानुसारेण भवन न प्रतिभामात्रहेतुको भवति । तस्य हि ज्ञायमानोऽर्थः करणम् , न तद्ज्ञानमात्रम्। अर्थस्तदानीं* नास्तीति चेत्–विप्रलम्भवाक्यमिदं । असत्यार्थं भविष्यति, न त्वबाह्यविषयं तत् । यथाऽवस्थिते वनितात्मनि । बाह्येऽर्थे वासनानुसारेण कुणप इति, कामिनीति, भक्ष्यमिति प्रतिभा भवन्ति तथा शब्दार्थेऽपि व्याघ्रागमनेऽवगते शूराणामुत्साहः, कातराण भयमित्यादि कार्यं भवति। न त्वेतावता प्रतिभा शब्दार्थो भवितुमर्हति । तस्मात् वाक्यप्रयोजनत्वेन वा यदि प्रतिभा वाक्यार्थः कय्यते; कथ्यतां : नाम, न त्वसौ शब्दस्याभिधेया । अनभिधेयाऽपि संसर्गवत् वाक्यार्थ इति चेत-तत्राप्युक्तम्। संसष्टा वाक्यार्थः, 'न संसर्गः। एवमिहापि प्रतिभावन्तोऽर्था वाक्यार्थः, न प्रतिभेति ॥
शब्दस्य च प्रत्यक्षवत् वर्तमानार्थनिष्ठत्वाभावात् अनागताद्यर्थाभिधायिनोऽर्थासन्निधानेन प्रतिभापरत्वं यदुच्यते तदप्ययुक्तम्-अनागतादिविषयत्वेऽपि तस्यार्थविषयत्वं प्रसाधितमिति कृतं विस्तरेण ॥
वाक्यार्थः परमार्थ एव तदयं नो कल्पनानिमितः
तद्वानप्युदितः पदस्य विषयस्तेनार्थसंस्पशिना । . अप्रामाण्यमतश्च बाह्यविषयाभावेन यद्वय॑ते
तत् , शब्दस्य निरस्तमित्यकलुषं प्रामाण्यमस्य स्थितम् ॥ इति श्रीजयन्तभट्टकृतौ न्यायमञ्जर्यां पञ्चममाह्निकम्
* तदानी-शब्दोच्चारणकाले ॥
1 धिकार-घ,
तथा-क-घ.