SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 141 पञ्चममाहिकम् स्पन्दो नामेति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा हि नव आत्मनो गुणा विशेष गुणा भवन्ति, नान्ये । तत्रायमात्मस्पन्दः बुद्धिर्वा स्यात् , प्रयत्नो वा, इच्छाद्वेषयोरन्यतरो वा? अन्ये तु विकल्प. यितुमपि न युक्ताः। तत्र यदि बुद्धिरात्मस्पन्द उच्यते-तहि प्रतिभा वाक्यार्थ इत्युक्तं भवति; न नूतनं किंचिदुत्प्रेक्षितमेतत् ।। अथ प्रयत्न आत्मस्पन्दः, तहिं भावनाया नामान्तरकरणमुद्योगइति ॥ अथ इच्छाद्वेषयोरन्यतरोऽसौ-तहि सुखेच्छा, दुःखजिहासा वा . वाक्यार्थ इति अक्षपादपक्ष एवायं, नापूर्वं किचित् ।। अथापि भापरिकल्पितो व्यापार आत्मास्पन्दः, सोऽपि भावनैव, नार्थान्तरम् ॥ अथानुष्ठेयः प्रेरकः कश्चिदर्थ उद्योगः-स तर्हि नियोग एव; *उपसर्गान्यत्वमिदं, न वस्त्वन्यत् ।। . तस्मादश्रुतपूर्वेण कृतमुद्योगपर्वणा । · स भारतमनुष्याणां गोचरो न तु मादृशाम् ।। [वाक्यपदीयोक्तः प्रतिभाया वाक्यार्थत्वपक्षः] अन्यस्तु प्रतिभा वाक्यार्थ इष्यते। तत्पक्षस्तु संसर्गनिर्भासज्ञाननिराकरर्णन प्रागेव प्रतिक्षिप्पः ।। .. प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते । न तु शब्दस्य विषयः रूपधीरिव चक्षुषः ॥ बाह्यस्य विषयस्याभावात् सैव विषय इति चेत् , न तस्य समर्थितत्वात् ॥ * उत् , नि इति उपसर्गभेदमात्रम् ॥ *भारतमनुष्याणां, उद्योगत्यादिः नर्मोक्तिः ॥ 1 दय-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy