________________
140
न्यायमञ्जरी फलनिष्ठ एव व्यापारः। नियोगस्यापि फलं विना न प्रवर्तकत्वमित्युक्तम्। क्रियाया अपि केवलाया वाक्यार्थत्वमपास्तम् ॥
तस्मात् फलस्य साध्यत्वात् सर्वत्र तदवर्जनात् । क्रियादीनां च तादात् तस्य वाक्यार्थतेष्यते ॥
[क्रयाया अपि फलशेषत्वम् ] ननु ! फलस्य स्वर्गादेः निसर्गत: *सिद्धरूपत्वात् कारकैस्सह संबन्धो प प्रप्नोति। सिद्धस्य च कः संबन्धः ? क्रियागर्भ इति चेत्-तहि फलमपि, कारकाण्यपि-क्रियया संबध्यन्ते, को विशेषः ? सत्यम्-परंतु कारकाणि साधनत्वेन, फलं तु साध्यत्वेन । क्रियया हि फलं साध्यते। न फलेन क्रियेत्यतः फलस्यैव प्राधान्यमिति सिद्धम् ॥ .
अन्योन्यसंगतिविशेषित एव यस्मात् .
वाक्यार्थभावमुपयाति पदार्थपुंजः । एतच्च चेतसि निधाय ततो न भिन्नं · वाक्यार्थमभ्यकधित च कश्चन सूत्रकारः ।। प्राधान्ययोगादथवा फलस्य
वाक्यार्थता तत्र सतां हि यत्नः । प्रयोजनं सूत्रकृता तदेव प्रवर्तकत्वेन किलोपदिष्टम् ।।
[उद्योगस्य वाक्यार्थत्वपक्षः] अपरे पुनः लिङादिशब्दश्रवणे सति समुपजायमानमात्मस्पन्दविशेष उद्योगं नाम वाक्यार्थमाचक्षते । तत्स्वरूपं तु वयं न जानीमः, कोऽयमात्म
* क्रियैव साध्या। स्वर्गश्च न क्रियारूपः। अत: न साध्यः किन्तु सिद्धः, घटादिवत् ॥
1 फलं-.