________________
139
पञ्चमामह्निकम्
[ संसर्गस्य अशब्दार्थत्वम् ] ___ननु ! संसर्गोऽपि न शब्दार्थः-सत्यम्-स हि शब्दस्याभिधेयो न भवति, न तु ततो न प्रतीयते। अनभिधेयः कथं प्रतीयत इति चेत्*एतदने निर्णेष्यते। व्यवच्छेदे तु न सा गतिः। तस्मात् संसृष्टाः पदार्थाः वाक्यार्थ इति स्थितम् ॥
[फलरूपप्रधानार्थस्यैव वाक्यार्थत्वम् ] अथवा गुणीभूतेतरपदार्थानुगृहितः एक एव प्रधानभूतः पदार्थों वाक्यार्थ इत्येकाकारप्रतीतिबलादुपेयताम् । एकस्त्वयमसावर्थ इति न निर्णतुं शक्यते। यदि त्ववश्यमेकस्य कस्यचिदभिषेककलशो दातव्यः, तत् फलस्यैव दीयताम्। न हि निष्प्रयोजनं किंचिद्वाक्यमुच्चर्यते ॥
क्वचित् साक्षात्पदोपात्तं क्वचित् प्रकरणागतम् ।
क्वचिदालोचनालभ्यं फलं सर्वत्र गम्यते ॥ सकलेन च कारककलापेन क्रिया निर्वय॑ते। क्रियया च फलम् । न तु फलेनान्यत् किमपि निवर्त्यत इति प्रधानत्वात् फलमेव वाक्यार्थः ॥
[फलस्यैव प्राधान्यपक्षः] ननु ! फलमपि पुरुषार्थमिति पुरुषः प्रधानं स्यात्-नैतदेवम्-फलं सुखात्मकत्वात पुरुषाश्रितं भवति, सुखादीनामात्मगुणत्वात्। न चैता. वता पुरुषः प्रधानम्। सोऽपि हि फलार्थमेव यतते। भावना तावत्
* अग्रे-समनन्तराह्निके॥
+ क्रियामयत्वाल्लोकस्य, फलस्यैव क्रियया सोधनात् तस्यैव लोकदृष्टया प्राधान्यम् । वस्तुदृष्टया तु पुरुषस्य स्यानाम प्राधान्यम् ॥
1 इंति-घः