________________
138
न्यायमञ्जरी संसृष्टाः पदार्था अवभासन्ते, न तदारब्धः कश्चिदेकः। संसर्गसिद्धिकृतस्तु गुणप्रधानभावोऽभ्युपेयते ॥
स च गुणप्रधानभावो न *नियतः, येन एकमेवेदं प्रधानमिति व्यवस्थाप्यत। क्वचित् कारकं प्रधानम्, क्रिया गुण; द्रव्यस्य चिकीर्षितत्वेनावगमात्–'वीहीन प्रोक्षति' इति ॥
सिद्धतन्त्रं क्वचित साध्यं तत्तन्त्रमितरत् क्वचित् । शब्दप्रयोगतात्पर्यपर्यालोचनया भवेत् ॥
__ [संसर्गविशिष्टपदार्थानां वाक्यार्थत्वम् ] तस्मात् गुणप्रधानभावानियमात् अन्योन्यसंसृष्टः पदार्थसमुदायो वाक्यार्थ इति एतावदेव श्रेयः। संसर्गावग़मे च सर्ववादिनाम विवादः॥
वाक्यार्थ मन्वते येऽपि नियोगं भावनां क्रियाम्।। तैरप्यन्योन्यसंसृष्टः पदार्थग्राम इष्यते ॥
[अन्यव्यवच्छेदः न वाक्यार्थः] ननु संसर्गवदन्यव्यवच्छेदोऽपि गम्यते। गौः शुक्ल आनीयताम्' इति श्रुते कृष्णाश्वादिव्यवच्छेदप्रतीतिदर्शनात्-सत्यम्-संसर्गपूर्वकस्तु व्यवच्छेदः। शुक्लगुणसंसृष्टो हि गौः कृष्णादिभ्यो व्यवच्छिद्यते । अन्यापोहस्तु न 'पदार्थ इत्युक्तम्। तस्मान्न भेदो वाक्यार्थः ॥
* गुणप्रधानभावः आपेक्षिक एव सर्वत्र । अपेक्षा च देशकाल कार्यानुरोधेन बहुप्रकारा। स्वदेशे राजाप्रधामन् । शिशोर्नामकरणे शिशुः प्रधानम् । पाककार्ये पाचकः प्रधानम् ॥
1 क्वचितू-ख,
· श्रुते-ख,
' शब्दार्थ-क.