________________
137
पञ्चममाह्निकम् यदेतदुक्तमस्माभिः 'अनेक: पदार्थो वाध्यायः, न पुनरेकः' इति, तन्न "होतमायुष्मता ॥
[वाक्यार्थस्यापूर्वत्वम् ] - एतदुक्तं भवति-परस्परसंस्पृष्टपदार्थसमुदायो वाक्यार्थ इति संसर्ग एवाधिक इति 'यदत्राधिक्यं' इत्युच्यते। न चानाक्षित विशेषत्वेन संसर्ग उपपद्यते इति विशेषो वाक्यार्थ इत्युच्यते। संसर्गस्तु स्वरूपतो न वाक्यार्थः, अपदार्थत्वात्। 'गौः शुक्ल आनीयताम्' इति पद ग्रामे संसर्ग 'वादिनः पदस्याश्रवणात्। श्रवणेऽपि सुतरामनन्वयात्। 'गौः शुक्ल अनीयतां संसर्गः' इति कोऽस्यार्थः? तस्मात् संसृष्टो वाक्यार्थः, न संसर्गः। तदुक्तं- 'व्यतिषक्ततोऽवगतेय॑तिषङगस्य' इति । न च तन्तुभिरिव पटः, वीरणैरिव कटः तदतिरिक्तोऽवयविस्थानीयः पदार्थो निर्वय॑मानो वाक्यार्थ उपलभ्यते । जातिगुणक्रियावगमेऽपि अवयविबुद्धेरभावात् । न च पदार्थावयवी वाक्यार्थः। तेन पृथावाक्यार्थं नोपदि. ष्टवानाचार्यः॥
[ वाक्यार्थः न पदार्थातिरिक्तः ] ननु ! गुणप्रधानमावमन्तरेण न संसर्गोऽवकल्पते। न चैकस्मिन् वाक्ये बहूनि प्रधानानि भवन्ति; प्राधान्यमेव हि तथा सति न स्यात् । गुणास्तु बहवो भवन्ति । यदिदमनेकगुणोपरक्तं एक किंचित्प्रधानं, स वाक्यार्थ इति तद्विषयेय मेक स्वभावा बुद्धिः--सत्यम्-तथापि त एव
* संसर्गस्य व्यक्तिविशेषगतत्वात् ॥
_1 विषयत्वेन-क-घ, * मेकगुण-घ.
पदार्थ-ख,
'वाचिनः-ख,