________________
136
न्यायमञ्जरी इति चेत्', *पृथक्प्रस्थाना हीमा विद्याः। प्रमाणविद्या चेयमान्वीक्षकी, न वाक्यार्थविद्येति ।।
यद्येवं पदार्थोऽपि कस्मादिह दर्शितः 'व्यक्त्याकृतिजातयस्तु पदार्थः' इति-स्थाने प्रश्नः-स तु शब्दानामसंस्पशितां, वदन्तं रुदन्तं च शमयितुं शब्दप्रामाण्यसिद्धये सूत्र'कृता यत्नः कृतः ॥
[पदार्थानामेव वाक्यार्थत्वम् यद्येवं वाक्यार्थमपि बाह्यं वास्तवमन्तरेण शस्त्रस्य प्रमाणता न . प्रतिष्ठां लभत इति तत्रापि प्रयत्नः कर्तव्य एव-सत्यम्-पदार्थप्रतिपाद- . नयत्नेनैव तु कृतेन तत्र यत्नं कृतं मन्यते सूत्रकारः, यदयं पृथक्पदार्थेभ्यो. न वाक्यार्थमुपदिशति स्म। तस्मादयमस्याशयः-पदार्थ एव वाक्यार्थः . इति ॥
तत्किममुमेव पक्षं अनुमोदामहे पदार्थ एव वाक्यार्थ इति । बाढं ब्रुमः। किंतु नैकः पदार्थो वाक्यार्थः, अनेकस्तु पदार्थो वाक्यार्थः॥
पदार्थवाक्यार्थयोः विशेषः] ननु! अनेकोऽपि भवन् पदार्थ एवासौ । न च पदार्थो वाक्यार्थो भवितुमर्हति । सामान्य हि पदं वर्तते, विशेषे वाक्यम् । अन्यच्च सामान्यम्, अन्यो विशेषः । अन्यत्राप्युक्तम्-'यदत्राधिक्यं स वाक्यार्थः' इति । तस्मादन्यः पदार्थः, अन्यश्च वाक्यार्थः-उच्यते--
* गोपदं गोत्वावच्छिन्नवाचकम् । परन्तु 'गामानय' इति वाक्यस्थं न यत्किञ्चिद्गोवाचकम् । किन्तु विशिष्य किञ्चिद्व्यक्तिवाचकम् ॥
* व्याकरणं पदशास्त्रम् । मीमांसा च वाक्यशास्त्रम् । इदं च प्रमाणशास्त्रम् ॥
1 सूत्र-घ,
एको-ख.