SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 135 पञ्चममाह्निकम् तस्मात् पुंसः प्रवृत्तौ प्रभवति न विधिः नापि शब्दो लिङादिः व्यापारोऽप्येतदीयो न हि पटुरभिधा भावनानामधेया। न श्रेयस्साधनत्वं विधिविषयगतं नापि रागादिरेवं तेनाख्यत् काम्यमानं फलममलमतिः प्रेरकं सूत्रकारः ॥ - इति वाक्यार्थविमर्शः - . [वाक्यार्थस्वरूपवर्णनम् ] आह- . परपक्षान् प्रतिक्षिप्य प्रेरकं कथितं फलम् । एवं परमतद्विष्टः वाक्यार्थः स्वयमुच्यताम् ।। उच्यते – 'यमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम्' (न्या-सू-1-1-24) इति वदता सूत्रकृता फलं प्रवर्तकमिति प्रदर्शितम् । 'प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमीप्सति, जिहासति वा। तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरुच्यते। सामर्थ्य पुनरस्याः फलेनाभिसंबन्धः' इति च ब्रुवाणो भाष्यकारोऽपि फलेप्सां प्रवर्तिकां प्रादोदृशदिति तदीयां सरणिमनुसरद्भिरस्माभिरपि तथैव तत्कथितम् ॥ [विद्यास्थानानां विविक्तविषयकत्वम् ] - वाक्यार्थस्तु न क्वचिदपि सूत्रकारभाष्यकाराभ्यां सूचित 'इति त शिक्षित्वा वाक्यार्थस्वरूपं वयमाचक्ष्महे। किमिति ताभ्यामसौ न सूचितः * उपलंभः-ज्ञानं, न तु प्रत्यक्षम् । 1 इति चेत्-ख. (cont.)
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy