________________
134
न्यायमञ्जरी. [शब्दस्यापि प्रेरकत्वासंभवः] यत्तु लिङादेश्शब्दस्य तद्व्यापारस्य वा प्रेरकत्वमुच्यते-तत प्रागेव प्रतिक्षिप्तम्। विधिरपि स्वमहिम्ना वा प्रेरकः स्यात् ? साध्यसाधनभावसंबन्धावबोधनेन वा ? स्वमहिम्ना प्रेरकत्वमस्य पूर्वमेव निरस्तम् । साध्यसाधनभावसंबन्धावबोधनपुरस्सरे तु तस्य प्रवर्तकत्वे फलस्यैव । प्रवर्तकत्वमिदमनक्षरमभिहितं भवति ॥
यस्त्वाह प्रेरकत्वं चेत् फलं दर्शयतो विधेः।। प्रत्यक्षादिसमानत्वात् *स्वातन्त्र्यं तस्य हीयते ॥ स वाच्यः फल शून्यत्वे सुतरामस्वतन्त्रता ।
"यद्रिक्त मथं मूढोऽपि न कश्चिदनुतिष्ठति ॥ को हि नाम निष्फलमर्थ प्रेक्षावाननुतिष्ठेत् ? · ..
ननु फलेऽपि दर्शिते केचित्तत्र न प्रवर्तन्त एव । किंचातः ? काम मा प्रवतिषत । न हि कारको विधिः, अपितु ज्ञापक इत्युक्तम् ॥ ___ ननु फलमप्रदर्शयन्नपि ज्ञापयेत्-न ज्ञापयितुमुत्सहते, प्रेक्षावान् हि ज्ञाप्यते, न च फलं विनाऽसौ तथा ज्ञापितो भवति इत्यलं बहुभाषि
कया॥
[ फलस्यैव प्रवर्तकत्वोपसंहारः] फलस्यैवेष्यमाणस्य पश्यन् प्रेरकतामतः ।
यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत् ॥ * प्रत्यक्षं वस्तु प्रदर्शयति । प्रवृत्तिस्तु इच्छयैव । एवं च विधेः स्थानमेवं न लभ्येत ॥
1 न प्रेरक.-ख,
यच्छिष्ट-के-घ.