________________
133
पञ्चममाह्निकम्
सुखे दुःखनिवृत्तौ वा पुंसां भवति कामना । न पुनर्पोमपुष्पादि कश्चित् कामयते नरः ॥
[ रागादेः प्रवर्तकत्वनिरासः] येऽपि रागादेः प्रवर्तकत्वमभ्युपगतवन्तः, तैरपि कामनाविषयीकृतं फलमेव प्रवर्तकमभ्युपगतम्। *इच्छाविशेषा एव हि रागादयः ।।
यदपि श्रेय स्साधकत्वं' प्रवर्तकमुच्यते, तदपि न चारु; सत्यामपि श्रेयस्साधनतायां अनथित्वेन प्रवृत्त्यभावात् ॥
ननु ! अथिनोऽपि नानियतविषया प्रवृत्तिः, अपितु नितिश्रेयस्सा धन भावे भावार्थे । तस्मात तत्साधनतावगमः प्रवर्तकः-सत्यम्-द्वये सत्यपीच्छैव प्रवर्तिका वक्तुं युक्ता, तस्यां सत्यामेव प्रवृत्तिदर्शनात् । प्रवृत्तिहि नाम प्रयत्नः। प्रयत्नश्चेच्छाकार्य इति काणादाः। विषयनियमे तु श्रेयस्साधनत्वं कारणं, न प्रवृत्त्युत्पादे ||
किंच भावनावगतं श्रेयस्साधनत्वं प्रतर्तकमिष्यते तैः। तच्च न पृथगभिधातुं युक्तम्। भवनायाः त्र्यंशत्वेन तत्स्वरूपानगमसमये एतदंशयोः स्वर्गयागयोः साध्यसाधनभावावगतिसिद्धः। न चांशद्वयावच्छिन्नस्य व्यापारस्य श्रेयस्साधनत्वं रूपं वक्तुमुचितम् , अनिष्पन्नस्य तस्य ताप्याभावात् । न ह्यनिष्पन्ने गवि तदेकदेशसास्नादौ गोत्वरूपं सामान्यं निविशते। न चांशत्रयपूरणमन्तरेण भावनाख्यव्यापारनिष्पत्तिरिति ॥
* फलविषयिणी उत्कटेच्छा रागः ॥ + विषयनियमः-प्रवृत्तिविषयव्यवस्था ॥
1 साधक-ख,
भावेऽर्थे-ख.