________________
132
न्यायमञ्जरी . चपेटापरिहाराय मोदकप्राप्तयेऽपि वा।
प्रवर्तते वटुर्नासौ जुहुधीति नियोगतः ॥ कथं तद्देवमाचष्टे 'आचार्यचोदितोऽहं जुहोमि' इति ? अस्त्वयं व्यपदेशः । आचार्यचोदना तु न तत्र कारणम् ; अपि तु हिताहितप्राप्ति परिहारार्थित्वमेवेत्यतः फलं प्रवर्तकं युक्तम्, अनुभवसाक्षिकत्वात् ॥
__ [शब्दप्रयोक्त्राशयस्यापि प्रेरकत्वं न युक्तम् ] येऽप्याहुः-प्रयोक्त्राशयस्य प्रवर्तकत्वम् , यतोऽननुविधेयस्य वचनात् न प्रवर्तमानः कश्चिदृश्यते। अनुविधेयस्य पुंसः किंचि'दब्रुवतोऽपि भ्रूभङगादिनाऽऽशयमवगम्य प्रवर्तत इति-एतदप्ययुक्तम्-यतः प्रयोक्त्रा। शयानुमानेन स्वार्थसंभावनया लोकः प्रवर्तते। न पुनः प्रयोक्तव प्रीयता-. मिति। तत्प्रीतिरपि स्वप्रीतिहेतुत्वेनार्थ्यते, न तत्प्रीतित्वेन। बुद्धोऽपि हि नाम सकलसत्त्वहितंप्रतिपन्नः परार्थ स्वप्रयोजनतयैव्र* संपादयति । परार्थसंपादनद्वारकं तु तत् । तस्मात् स्वप्रीतिरेव प्रवर्तिका। प्रयोक्त्रा शयस्य च प्रवर्तकत्वे वेदार्थप्रयोक्त्राशयानवधारणात् अप्रवृत्तिरेव प्राप्नोति। तस्मात् फलमेव प्रवर्तकम् ।।
यत्पुनः फलस्य प्रेरकत्वे दूषणमभ्यधायि–सिद्धयसिद्धविकल्पानुपपत्तेरिति - तदप्ययुक्तम् – इच्छाविषयीकृतस्य प्रवर्तकत्वाभ्युपगमात् । असिद्ध कथं "कामनेति चेत्-असिद्धत्वादेव । इदानीं च तदसिद्धं ; नैकान्तासिद्धस्वरूपमेव, खपुष्पवत् ॥
. 'आकाशस्य स्थितिर्यावत् यावच्च जगत: स्थितिः । तावन्मम स्थितिर्भूयाल्लोकपापानि निघ्नतः'
इति किल बुद्धवाक्यम् ॥ .
___1 दकुर्वतोऽपि-घ,
नेति-ख.