________________
131
पञ्चममाह्निकम्
__[ नियोगे व्युत्पत्त्यसंभवः] अपि च
प्रमाणान्तरसंपर्कविकले भवतः कथम् ।
नियोगात्मनि वाक्यार्थे व्युत्पत्तिर्व्यवहारतः? | ननु 'उक्तमा'कूतविशेषपूर्विकां चेष्टामात्मनिष्ठां दृष्ट्वा परत्रापि तथाऽनुमानमिति - अयुक्तमिदम् – स्वात्मन्यपि प्रेरणावगमनिमित्ताभावात्। न ह्यात्मेव, संविदिव प्रेरणावगमनिमित्ताभावात प्रेरणा स्वप्रकाशा। प्रेरणा संवित् स्वप्रकाशेति चेत् तदुत्पादे तहि निमित्तं 'तावत् मृग्यम् । न तावच्छब्दः, तदानीं व्युत्पत्त्यभावात् । स्वात्मनि प्रेरणावंगमपूर्विकां हि चेष्टामुपलब्धवतः ते परत्र चेष्टादर्शनात् तदनुमानं सेत्स्यति। तन्निमित्तं लिङादिश्शब्द इति भोत्स्यते, स पुनव्युत्पत्तिकाले स्वात्मन्येव प्रेरणावगमश्चिन्त्यो वर्तते। प्रमाणान्तरात्तु तदवगम इति चेत्-उत्तिष्ठ, असिद्धं शब्दैकगोचरत्वम् || ___या चेयं पूर्वावधारितसुखसाधनभावे कपित्थादौ स्वात्मनि प्रवृत्ति
रुपलब्धा, तत्र प्रेरकत्वेन फलार्थिता निर्माता, नान्या कचित् प्रेरणा। '. तदुक्तम् (प्र-वा-भा-2-4-183)।
'स्मरणादभिलाषेण व्यवहारः प्रवर्तते' इति । फलविषया होच्छा तत्र स्वसंवेद्या |
अतश्च प्रेरकज्ञानं शब्दादपि परस्य यत् । कल्प्यते कल्प्यतां तत्र प्रेरिका *सैव सुन्दरी ॥
. * सैव-फल विषयकेच्छैव ॥
1 क्रमा-क, अनुक्रमा-घ, * सिद्ध-घ. (in next page)
स्वप्रकाशा प्रेरणा-ख,
३ मृग्यम्-ख.