SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 130 न्यायमञ्जरी [कामाधिकारे विध्यर्थः] ___ यदप्युक्तं-कामाधिकारेषु काम्यमानभावार्थयोरुपायोपेयभावमात्र. प्रतिपादनगर्यवसितो विधिव्यापार इति-तदपि न सम्यक्-विधिपुरुषयोहि प्रेर्यप्रेरकभावलक्षणः संबन्धः। तत्र यागादयो विषयत्वेन प्रतीयन्ते, नेष्यमाणो पायत्वेन। साध्यसाधनमात्रप्रतिपादनपर्यवसितव्यापारस्तु विधिः विनियोगपर एव स्यात्। ततश्चाप्रवृत्तप्रवर्तकं नाम मिजं रूपं जह्यात् ।। *विधेश्चतुरवस्थत्वं फलतः किल कथ्यते । प्रेरकत्वं च तद्रूपं सर्वावस्थानुगामि यत् ।। कार्यात्मताऽपि विध्यर्थे प्रेरणाज्ञप्तिपूर्विका । प्रेर्येणैव सता पुंसा तत्कार्यमवधार्यते ।। लिङादिश्रुतितश्चादौ प्रेरणव प्रतीयते । साध्यसाधनसंबन्धबुद्धिस्तद्बुद्धिपूर्विका ।। . नन्वेवं काम्येष विधितः प्रवृत्ताविष्यमाणायां अप्रवर्तमानः प्रत्यवे. यात्, विध्यतिक्रमात्-भवम्-स्वर्ग सिषाधयिषोः तत्राधिकारात् । अन्यस्त्वनधिकृत एव, क्षत्रियादिरिव वैश्यस्तोमे। नासावकुर्वन् प्रत्यवायमर्हति । स्वर्गार्थी तु विधितः प्रवर्तत एव । लिप्सया तु करणांशे प्रवृत्तिरिष्यमाणा क्रत्वमितिकर्तव्यतांशमपि मैवं स्पृशेता। ऋतूपकारकामो हि तत्र प्रवर्तते इत्येवं सर्वत्र विधिरुत्सीदेदेवेत्यलं प्रसङगेन ॥ * प्रेरकत्वस्य समानत्वेऽपि फलद्वारकमेव चतुरवस्थत्वं नित्यनैमित्तिककाम्यप्रति. षेधस्थलेषु ॥ ___ अतस्साङ्ग एव करणे विध्या प्रवृत्तिः।। 1 पयोगित्वेन-घ, सैव-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy