________________
पश्चममाह्निकम्
129 ___ येन हि दुर्विषहक्लेशद्वेषकलुषितमनसा ब्राह्मणहननं सुखसाधनमिति कर्तव्यमिति गृहीतम् , निरर्गलरागरसिकेन सुरापानं सुखसाधनमिति गृहीतम् , स ततो विधिना 'वार्येत', यदि तदसुखसाधनमिति ज्ञाप्यते । तस्मानित्येषु *प्रत्यवायपरिहार इव, उपात्तदुरितक्षव इव वा प्रतिषिध्यमानेषु कर्मसु नरकपातः फलमित्यभ्युपगमनीयम्। इतरथा ह्यर्थानर्थविवे को न सिद्धयति ॥
एवं च ब्रह्महत्यादेरपि नैवास्त्यधर्मता। किं पुनः श्येनवज्रादेरित्यर्थग्रहणं वृथा ।।
.. [ करणेतिकर्तव्यतयोरविशेषः] करणांशेऽपि लिप्सातः प्रवृत्तिर्यधुपेयते । इतिकतव्यतांशे तु शास्त्राद्यदि तदप्यसत् ॥
न हि तत्करणं शुद्धं स्वफलायोपकल्पते । . . सेतिकर्तव्यताकं हि करणं करणं विदुः ॥
अवान्तरविभाग एवैषः करणेतिकर्तव्यतालक्षणः। सकलाङ गो बंहितस्वरूपस्तु भावार्थः काम्यमानोपायतां प्रतिपद्यते, नैकेनाप्यंशेन न्यूनः। अत एव काम्यानां कर्मणां सर्वाङगोपसंहारेण प्रयोगमिच्छन्ति । तस्मात् करणवदितिकर्तव्यतायामपि लिप्सात एव प्रवृत्तिः स्यात् ॥
उभयत्रापि लिप्सातः सति चैवं प्रवर्तने । अग्नीषोमीहिंसादेः श्येनादिवदधर्मता ||
* प्रत्यवायपरिहारः-अकरणे यो भवेत्तस्य परिहरण-प्रागभावसंरक्षणम् । उपात्तदुरितक्षयः-जातस्य तस्य ध्वंसः॥
* एवं च-विधि सद्भावादेव । वज्र इति च श्येनवत् हिंसाफलको यागविशेषः॥
1 वार्यते-ख.