________________
128
न्यायमञ्जरी भोत्स्यामहे । साधो ! लोकेऽपि कय तदवगतम् आयुष्मता ? नियोज्यसमर्पकपदवाच्यपर्यालोचनेन ? विधिवृत्तपरीक्षया वा ?
पदार्थस्तावदेतावान् ? एवं चातो ह्यसाविति । इदं तु सिद्धयत्येतस्मादिति तस्य न गोचरः ॥ विधेरेष स्वभावश्चत् , आयुष्मन् ! साधु बद्धयसे । भाट्टैः किमपराद्धं ते नित्येऽपि फलवादिभिः ॥
नित्येष्वपि फलसद्भावः] अधिकार्यनुपादेयविशेषगविशेषितः । जीवन् वा स्वर्गकामोऽपित्समानः काम्यनित्ययोः॥ विधिवीर्यप्रभावस्तु'द्वयोरपि तथाविधः ।
सप्रत्ययप्रेरकतां विधि!पैति निष्फलः ॥ ननु ! कामनाधिकारे स्वर्गः श्रूयते, नित्याधिकारे त्वसौ* न श्रूयते । आश्रयमाणः कस्यानुरोधेन कल्प्यते ? विधेरेवेति ब्रूमः। स्वर्गण श्रुतेनापि किं करिष्यति, यद्यसौ विधिना 'नापेक्ष्यत', 'घृतकुल्या अस्य भवन्ति' इत्यादिवत् अश्रुतोऽपि चासौ विधिनाऽऽकृष्यत एव। तस्मात् विधिरेवात्रों प्रमाणं, न श्रवणावगे इति काम्वन्नित्येऽपि फलमभ्युपगन्तव्यम् ; न वा क्वचिदपीति ||
[निषेधस्थलेऽपि फलसद्भावः] प्रतिषेधाधिकारेऽपि विधिवृत्तपरीक्षया । एवं नरकपातादिफलयोगो न दुर्भगः॥
* असौ–प्रत्यवायपरिहारः॥
अत्र-फलसाधनत्वे ॥
-
1 कृम-ख.
'नापेक्ष्यते-ख,