SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 127 पञ्चममाह्निकम् क्रियाकलापेन विना संपत्तिमलभमानः तत्तदाक्षिपति, तथाऽधिकारानुबन्ध वन्ध्यो ऽपि नासौ संपत्तिमधिगच्छतीति *तमप्याक्षिपति | यश्चायमधिकारानुबन्धाक्षेपः, स एवायं फलाक्षे पेण तु विधेः फला क्षेपि' तेत्युक्तम्। एतदयुक्तम् यो हि येन दिना काम न सिद्धयेत् स तमाक्षिपेत् । नियोज्यमात्राक्षेपे तु नियोगी न फलात्मकः॥ नियोज्यः चण्डाल स्पर्शनेनेव स्वर्गकामनोत्पादमात्रेण नियोज्यत प्रतिपन्न इति कथं नियोज्याक्षेप एव फलाक्षेपः॥ ..ननु च स्वर्गकामोऽत्र नियोज्यो नान्यथा भवेत् । यदि स्वर्गस्य संपत्ति नाधिगच्छेत् स्वकर्मणः॥ · नैतदेवम्. नरेच्छामात्रमेवेदं न शब्दस्त्वियति क्षमः । नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव॥ [यागस्वर्गयोः साध्यसाधनभावः कथमवगम्यते ?] ननु ! लोके काम्यमानस्य साध्यत्वं दृष्टम् हरीतकी भक्षयेदारोग्य कामः' इति। तेन वेदेऽपि 'यजेत स्वर्गकामः' इति स्वर्गस्य साध्यत्वमव . * तं-अधिकार-फलम् । तथा च फलसिद्धावेव नियोगसिधिः पूर्णा । अत एव अपूर्ववृद्धि रेव स्वर्गः इत्यप्युच्यते ॥ पुरुषविशेषणस्य चण्डालस्पर्शस्य स्नाने निमित्तत्वमात्रेण यथा चारिताथ्य, तथा स्वर्गस्यापि यागे प्रवर्तनामात्रेण ॥ * स्वकर्मण इति पञ्चमी ॥ । प्रवन्धो-क, न्धः-ख, ३ क्षेपोत-ख, पेक्षि-खं,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy