________________
126
न्यायमञ्जरी
[फलस्य नियोगशेषत्वनिरासः] अतश्च यत् कैश्चिदुच्चते-*स्वर्गसिद्धिमवान्तरव्यापारीकृत्य नियो गमेव भावार्थः संपादयतीति-तदप्यपास्तम्-अवान्तरव्यापारस्य ज्वल. नादेरिव प्रधानव्यापारात् पूर्व दर्शनप्रसङगादिति ॥
अथोच्यते-स्वर्गकामस्य स्वर्ग साधयितुमुद्यच्छतो यागे नियोगः यः संपाद्यः श्रूयते, स चेत् संपन्नः शब्दवृत्तेन फलमपि संपन्नमेव। आनुभाविकी तु स्वर्गादिसिद्धिः कालान्तरे भविष्यतीति-एतदयक्तम्सिद्धिद्वयानुपलंभात् । न ह्येका शाब्दी सिद्धिः, अन्या चानभाविक्री 'फलसिद्धिः कुतस्त्येति चिन्त्यम् ॥
कालान्तरे च भावार्थः क्षणिकत्वान्न विद्यते ।
शक्त्यादिरूपं चापूर्वं न भवद्भिरुपेयते ॥' भवन्तो ह्यपूर्वशब्देन धर्मशब्देन च नियोग मेवोप'चरन्ति । न च नियोगः शक्तिवत् आत्मसंस्कारवद्वा कालान्तरस्थायो भवती। . स हि प्रेरणात्मकः, कार्यरूपो वा, नोमययाऽपि स्थैर्यमवलम्बते ॥
[नियोगस्य फलाक्षेपकत्वे न संभवति] तत्रैतत् स्यात्-नियोगसिद्धिः आक्षित्तफलसिद्धिर्भवति । विषयाधनुबन्धावच्छिन्नो हसावेवानुष्ठेयः । तत्र यथा तेन तेन कारकचक्रेण
* नियोगः स्वसिद्वये फामपि संपादयति। यागश्च नियोगम् ।।
तथा च स्वर्गस्य पूर्वमेव अनुभवप्रसङ्गः॥ * सः-नियोगः ॥ . प्रयाग नवर्तयन् नियोगश्चरितार्थः। तथा च कालान्तरे कथं फलम् ? 1 नियोगमनेन-ख. 'यागेन योग-ख. सिद्धि-ख, भेवाप-ख.