________________
124
न्यायमञ्जरी ताम् । अधिकारानुबन्धाभिधाने पुरुष विशेषणमात्रमेतत् भवतु, किं स्वर्गसाध्यकत्वकल्पनया। *विशेषणत्वमेवान्यथा,न निर्वहतीति चेत् आयातं तहि फलस्य साध्यत्वम् । तच्चेत् साध्यत्वेनावगम्यते, तस्यैव सामर्थ्यसिद्धं लोकानुगुणमव्यभिचारि च प्रवर्तकत्वमुत्सृज्य न प्रेरणावगमस्य तद्वक्तुमर्हसीति ।।
नियोगादथनिष्पत्तिः फलस्येत्यभिधीयते । फलं प्रत्यङगभूतत्वात् अवाक्यार्थत्वमापतेत् ॥
[विध्यर्थस्य फलार्थत्वात् , वाक्यार्थद्वयापत्ति:] ननु ! विध्यर्थो न भावार्थवत् फले करणं, येनास्य तदङगत्वं स्यात्। आक्षेपकत्वात्तु तस्य फलार्थत्वमुच्यते। प्रयोक्तृत्वं हि तस्य निजं रूपम्यद्येवं भावार्थ एव साध्यो भवतु। विध्यर्थस्य तु किंमनुष्ठेयत्वमुच्यते ?
सोऽपि भावार्थसिद्धया संपद्यते, 'कृतो मया स्वामिनियोगः' इति व्यवहारादिति चेत्
भावार्थातहि निष्पत्तिः नियोगस्य फलस्य च । इत्येकत्र पदग्रामे वाक्यार्थद्वयमापतेत् ॥ .
[नियोगस्यापि फलशेषत्वम् ] किंचान्विताभिधानेन विषयत्वावधारणात् । नियोगस्यैव भावार्थनिष्पाद्यत्वं प्रतीयते ॥ स तु भावार्थतः सिद्धः फलाय यदि कल्प्यते । परार्थत्वादवाक्यार्थो भवेदित्युपणितम् ॥
* विशेषणत्वं-पुरुषविशेषणत्वम् ।।
1 त्तस्य-क.