________________
123
पञ्चममादिकम्
तथाविधस्य राज्ञोऽपि नाज्ञाऽनुष्ठीयते जनः। *वर्तमानापदेशेऽपि फलं यत्रावगम्यते ।। तत्र प्रवर्तते लोकः लिङादिष्वश्रुतेष्वपि । भवत्यारोग्यसंपत्तिः भुंजानस्य हरीतकीम् ।। तत्कामो भक्षयेच्चेति को विशेषः प्रवर्तने ? अन्वयव्यतिरेकाभ्यां तदेवमनुमन्यते। प्रेरकत्वं फलस्यैव न नियोगात्मनः पुनः॥
[वेदे फलस्य प्रवर्तकत्वासंभवशंका] - तत्रैतत् स्मात्-लोके भवतु फलार्थित्वात् प्रवर्तनं, आरिराध. यिषते', प्रेर कातिशयानुवर्तने वा तस्य पारंपर्येण फलहेतुत्वात् । वेदे तु वक्तुरभावात् प्रेरणावगमादेव प्रवृत्तिः॥ .' उन्मत्तवाक्यादपि लिङादियुक्तात् न प्रेरणावगमो नास्ति ? भवन्नपि 'दोष'दर्शनात् उपेक्ष्यते, उन्मत्त एवं प्रलपतीति । वेदे पुनः 'यजेत' इत्यत्र प्रेरणावगमात् परित्यागकारणाभावात् तत एव प्रवर्तनम् । प्रवर्त नाभावेऽपि न वेदस्याप्रामाण्यम्, प्रमाणव्यापारस्य तेन 'निर्वति तत्वादित्युक्तम् ॥
. [वेदेऽपि फलस्यैव प्रवर्तकत्वम् ]
उच्यते-वेदेऽपि वक्ताऽस्ति। तदाशयवशेन तत्रापि फलार्थिनां प्रवर्तनमिति संभवदपीदमुत्तरं नाचक्ष्महे, कथान्तरप्रसङगात्। कित्विदं. ब्रूमः-प्रेषणावगमादेव प्रवृत्तिसिद्धौ स्वर्गकामपदं बादरिवदन्यथाव्याख्याय
पम्।
* लडादिप्रयोगेऽपि ॥
* फलस्य कर्मशेषत्वं नास्तीति बादरेर्मतं पूर्वमीमांसायां (3-1-3) निरू पितम् । तेन फलस्य प्राधान्य सिद्ध मिति तज्ज्ञानमेव प्रवर्तकम् ।।
1 आराधयि यते-ख,
का-ख,
३ फला-ख,
प्रवर्ति-का