________________
122
न्यायमञ्जरी ननु ! अन्य एव क्रियाकर्तृसंबन्धात् प्रेषप्रैष्यसम्बन्धो हि दर्शितः। न युक्तोऽसौ॥
कुर्यादित्यादिशब्देभ्यः क्रियादिव्यतिरेकिणः । नार्थान्तरस्य संवित्तिः कस्य चित् प्रेरणात्मनः ॥
. [नियोगस्यातिरिक्तत्वनिरास:]. किमिदानीं 'करोति' 'कुर्यात्' इत्यादि च तुल्ये एते प्रतिपत्ती ? अभिनवमिदं शब्द'ज्ञत्व'मायुष्मतः। न बमो न भिन्ने एते प्रतिपत्ती इति । 'करोति' इति प्रवृत्तक्रिय उच्यते, वर्तमानकालावच्छिन्नश्च । किं त्वसौ प्रेषः ततोऽवगम्यमानोऽपि प्रेरको न भवति, न च कार्य इति ब्रूमः ॥ .
ननु ! प्रेरकत्वेनैवावगम्यमानः कथं प्रेरको न भवेत्। एतदेवास्य प्रेषत्वम्, यत् प्रेरकत्वम्-सत्यम्-प्रेरकत्वेनैवासौ गम्यते । *न त्वसौ तथा भवति। ज्यवहारमात्रमेतत् 'राजाज्ञया करोमि' इति ! · कार्यत्वमप्यस्य प्रक्रिया मात्र ‘राजाज्ञां करोमि' इति ॥
[ फलस्यैव प्रेरकत्वं, न नियोगस्य ] . . आज्ञा हि नाम नैवान्या' संपाद्यत्वेन गम्यते । । नानुष्ठातुरियं बुद्धिः आज्ञा संपाद्यतामिति ॥ एवं हि यस्य कस्यापि प्रवर्तेत स आज्ञया । न चेह धालोन्मत्तादिवचनात् “फल वर्जितात् ।। सत्यपि प्रेरणाजाने प्रवर्तन्ते सचेतसः । भयं नाशङक्यते यस्मात् फलं वाऽपि समीहितम् ।।
* वास्तविकं प्रेरकत्वं तु तस्य नास्ति ॥
1 व्युत्पत्तिमत्त्व-ख,
क्रिया-ख,
३ न्य-ख,
4 यत्न-ख.