________________
पञ्चममाह्निकम्
121 क्वचिद्विनियोजकश्रुत्यादिप्रमाणविरहेऽपि पश्वेकत्वाद्युपादानं शेषीकुर्वन्नुपादायक इत्युच्यते। 'पशुना यजेत' इति विभक्या हि प्रातिपदिकार्थो विनियुक्तः। तत्स्थं त्वेकत्वं उक्तमेव, न विनियुक्तं, 'एकेन' इत्यश्रवणात् पशुरुपादीयमानो न संख्यारहित उपादातुं शक्यते। श्रुतसंख्यापरित्यागकारणाभावाच्च एकत्वविशिष्टः पशुरुपादीयत इत्युपादानतशेषीकृतमेकत्वम् ॥
[ नियोगवादोपसंहारः] वकृतस्तु सौर्यादिविधिः प्राकृतमितिकर्तव्याताजातमाकर्षश्चो दक इत्युच्यते । तदिदमेकस्यैव भगवतो लिङर्थस्य प्रयोक्तृशक्ति-खचिता'. त्मनः प्रचुरव्यापारवैचित्र्यमुपदर्शितमिति अलमनया महामतिमानसवत्या मीमांसार्थकथया। सोऽयमीदृशो नियोगो वाक्यार्थः ॥ - तस्य द्वादशलक्षण्यां तत्तद्रूपं* प्रकाशितम् । .. तन्नेह लिख्यतेऽस्माभिः ग्रन्थगौरवभीरुभिः ॥
दिङमात्रं त्वेतदाख्यायि नियोगस्य यथाऽऽगमम् । अमुष्मन्नपि वाक्यार्थे विवदन्ते मनीषिणः ॥
__ [नियोगवाक्यार्थनिरासः] लिङादेरवगम्यमानः कार्यरूपः प्रेरणात्मा च वाक्यार्थो नियोग इत्युक्तम्। न चासावेवंरूपोऽपि परिदृश्यमान भावार्थादि व्यतिरिक्तोsवगम्यते ।।
क्रियैव तावत कार्यात्मा, प्रेरणात्मा फलाथिता । प्रतीयते ततोऽन्यस्तु नियोगो नोभयात्मकः ॥
____ * वाक्यशास्त्रं हि मीमांसाशास्त्रं नियोग निरूपण एव पर्यवस्यति ॥
1 वेदिता-ख,
त्मको-क,
भावनादि-ख,