________________
120
न्यायमञ्जरी प्रयोगविधिस्तु यः क्रमपर्यन्तं प्रयोगे पदार्था नवगमयति । अयं चाधिकारविधेरेव व्यापार विशेष इति तदेवास्योदाहरणम् 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इति ॥
क्वचिदेकस्मिन्नेव वाक्ये रूपचतुष्टयं विधेरवगम्यते, न तत्र पृथगुदाहरणमपेक्ष्यते। यथा 'एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोम साम कृत्वा । पशुकामो ह्येतेन यजेत' इति॥
___ [नियोगस्य रूपान्तराणि अन्यान्यपि नियोगस्य रूपाणि व्यापारभेदादवगम्यन्ते । स हि भावार्थ.. सिध्यर्थं तत्समर्थमर्थमाक्षिपतीति तत्प्रयोजक उच्यते। यथा माणवकस्थ.. स्याध्ययनस्याचार्यकरणविधिः* ॥
क्वचिदन्याक्षिप्ते वस्तुनि लब्धे सति तत्राप्रयोजको विधिर्भवतियथा क्रयनियुक्तकहायिन्या लाभे सति, न पादपांसुग्रहणार्थ अन्यामेकहायनीमाक्षिपति विधि रिति। प्रकरणपठितपदार्थपटलपरि ग्रहाच ग्राहक इति विधिरुच्यते॥
क्वचित् प्रकरणपठितस्यापि तेनागृहीतस्य द्वादशोपसदादेः प्रकरणादुत्कर्षदर्शनात् अत एव नियोगगर्भो विनियोग इत्याचक्षते॥
-
* 'संमाननोत्सर्जनाचार्यकरण' इत्यादिना आत्मनेपदप्राप्त्या 'अष्टवर्ष बाह्मणमुपनयीत', तमध्यापयीत' इति आचार्यकरणं विहितम् । तञ्चमाणवकस्याध्ययन मन्तरा न संभवतीत्यार्थादध्ययनलाभः ॥
सप्तमं पदमभिगृह्णाति' इति सप्तमपदात्पांसु गृहीत्वा हविर्धानशकटाक्षमाजनं विहितम् ॥
* द्वादशोपसत्ताऽहीनस्येति श्रवणेऽपि, 'तिस्न उपस्रदो भवन्ति' इति वचनेन उपसत्त्रयस्य प्राप्तिः ॥
1 नामवगम इति-ख,
गहश्च-ख.