SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 119 पञ्चममाह्निकम् [नियोगस्यैव प्राधान्यम् ] , वाक्यार्थत्वं चास्य प्रधानत्वात् । अन्यो हि यज्यादिरर्थोऽवगम्यमानः तदनुप्रवेशेन प्रतीयत इति गुणो भवति । नियोगस्तु स्वमहिमाक्षिप्तदृष्टोपकारानेकक्रियाकारककलापोपबंहितस्वरूपः प्रतीयत इति प्राधान्यमवलम्बते। कार्य चेत प्रधानमुच्यते नियोग एव *कार्यम् । फलं चेत् प्रधानमुयते, तदपि न सिद्धम् , अपि तु साध्यम्। साध्यत्वं चास्या नियोगाधीनमिति नियोग एव प्रधानम्। पुरुषस्तु नियोज्यमानवादप्रधानमिति || [नियोगस्य चतुर्विधत्वम् ] ___ एवं नियोग एव प्रधानत्वात् वाक्यार्थः। स च प्रतीतिभेदपर्यालोचनया चतुरवस्थ उच्यते। 'उत्पत्तिविधिः, विनियोगविधिः, प्रयोग विधिः, अधिकारिविधिरिति ।। उत्पत्तिविधिः 'अग्निहोत्रं जुहोति' इति; अग्निहोत्राख्यकर्मस्वरूपोत्पादव्यतिरेकेणार्थान्तरानवगमात् ॥ विनियोगविधिः 'दध्ना जुहोति' इति, उत्पत्तिविधितः प्रतिपन्ने "भावार्थे' तत्र दध्यादिगुणविनियोगावगमात् ।। ___ अधिकारिविधिः 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इति; निर्जाते कर्मणि तत्राधिकृतस्य पुंसस्ततोऽवगमात् ।। का। फसपे तोयान त । लोक *वस्तुतस्तु नियोग एव व्यवहारसिद्ध तु कार्य गौणम् ॥ + अस्य-फलस्य ॥ 1 उत्पत्तिविधि:-ख, भावेऽर्थे-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy