________________
118
न्यायमञ्जरी
[ निषेधस्थले फलविमर्शः एवं नियोगव्यापारे समाप्ते फलकल्पना । नृबुद्धिप्रभवैव स्यात् अतः सापेक्षता भवेत् ।। कथं नरो निवर्तेत 'प्रत्यवायभयाद्विना । मा नितिष्ट विधिना तावदुक्तं निवर्तनम् ।। प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते । न निवर्तेत इत्येवं किं विधेरप्रमाणता ।। फलं भवतु मा वा भूत् पुरुषोऽपि प्रवर्तताम् ।
मा प्रतिष्ट वा स्वे तु *नास्त्यर्थे खण्डना विधेः ।। प्रवर्तनावगामजनने हि विधिव्यापार इत्यसकृदुक्तम् । तत चास्य म किंचिद्वैकल्यम ।।
[फलाभावेऽपि विधिसंभवः] ननु! विधेः फलापेक्षा नास्ति चेत्, कि तहि अश्रूयमाणफलेषु विश्वजिदादिषु स्वर्गादिफलं कल्प्यते ? अनभिज्ञो देवानांप्रियः-न तत्र विधेः फलापेक्षा। न च फलं तत्र कल्प्यते। . किन्तु अश्रूयमाणत्वा दधिकारानुबन्धस्य, निरधिकारस्य च विविधित्वानिर्वाहात् अधिकारानुबन्धः कल्प्यते। तत्र सर्वान् प्रत्यविशिष्टत्वात् स्वर्गकामः चोदनाशेषभावेन नियोज्यः कल्प्यते। न चेयं पौरुषी कल्पना, श्रुत्येकदेशः स इति हि तद्विदः। तदियमधिकारानुबन्धकल्पना, न फलकल्पना इति सोऽय. मनुबन्धद्वयावच्छिन्नो नियोगो वाक्यार्थः ।।
* विधेः स्वे अर्थे खण्डना तु नास्ति ।।
1 प्रत्ययापायतो विना-क,
क्लल्यम्- के,
किंच-ख,