________________
117
पञ्चममाह्निकम्
ननु ! उक्तमत्त 'भावार्थाः कर्मशब्दाः' इति। तल दध्यनुरक्तो होम एव विधीयत इति फलतो दधि विहितं भवति, न प्रमाणतः। इह तु नअस्तदुपमर्दस्वभावत्वात् संसर्गो दध्यादेरिव कल्पते ।। ___मैवम्-निवृत्तिमेव कुर्वन् विशेषगीभवति । सेयं न पहिते हन्तौ
श्रुते हनननिवृत्तिर्गम्यते । यथा सिद्धरूप'दध्यनुप्रवेशेऽपि न होमस्य साध्यमानाऽवस्था निवर्तते, तथा नजनुविद्धहन्त्यर्थावगतौ न पूर्वापरीभावबुद्धिनिवर्तते। न ह्यब्राह्मणवत् 'न हन्यात्' इति सिद्धरूपबुद्धिः । सोऽयं हनननिवृतिरूपः पूर्वापरीभूतोऽर्थो विधिविषयो भवति ।।
[प्रकारान्तरेण निषेधवाक्यार्थः] अथवा विमत्यर्थेन नन, संभन्स्यति। शुद्धस्य लिङादेरर्थः प्रवर्तकः, न पहितस्य तस्यार्थी निवर्तक इति शब्दशक्तिरेवैषा वाऽपर्यनुयोज्येति ।। . .
यत्तु साक्षात् नमोऽनन्तरं विधिविभक्तिोत्ययते, तत् तस्याधातुत्वात् धातोः परे तिङादयः प्रत्यया भवन्ति, नान्यस्मादिति । योग्यतया तु नअर्थेन तस्य संबन्धः। न च तत्रायमर्थोऽवतिष्ठते हननविधि - स्तीति । किन्तु नझुनहितो विधिरौदासोन्ये पुरुष नियुङस्ते । तदवच्छेदकश्च हन्तिः, अन्यथा सर्वक्रियौदासीन्यं प्रतीयतेत्यलमतिविमर्दैन । निषेधविधेरपि सिद्धोऽनुबन्धद्वययोगः ॥
* प्रवृत्तिवत् निवृत्तरपि क्रियारूपत्वात् ॥ * तत्र पयुदासानाश्रयणादिति हेतुः ।। * हननस्य विधित्वप्रसक्तिं पूर्वोक्तो वारयति-न चेत्यादिना॥ ६ अवछेदकः-अवधिः, औदासीन्यप्रतियोगी॥ विषयानुबन्धः, अधिकारानुबन्धश्च द्वयम् ॥
तयानु-क,
संपत्स्यति-ख,