________________
116
न्यायमञ्जरी [न हिंस्यादित्यस्य पर्युदासत्वासंभवः] अथायमब्राह्मणादिन्यायेन हन्तौ पर्युदस्ते भावार्थान्तरे नियोगः कल्प्यते-'न हन्यात्' इति कोऽर्थः ? अन्यत् किमपि कुर्यादिति; तहि किं तद्भावान्तरमिति न विचारयितुं शक्यम् । यत्किंचिदिति चेत्न-तस्य स्वतस्सिद्धत्वेन 'विध्यनर्हत्वात् । अवश्यं जीवन पुमान् . किंचित करोति, पठति, गच्छति, भङक्ते च ||
अथ विषयांशं परिहृत्य प्रमाणांशे नञ् निविशते, सा हि प्रवर्तमान पुमोसं रुणद्धि, यद्धन्यात् तन्नेति--तदप्यनुपपन्नम्-अन्विताभिधानेन विधिविभक्तेर्हन्तिनाऽवरुद्धत्वात । प्रेरणशक्तिस्वभावो विधिः स्थितः । यस्तु निषेधात्मा नन्' पार्श्वे स्थितः, तत्र न विधिः संक्रामति। संक्रा- . न्तावपि नजश्च संबन्धे सति विधेः स्वरूपनाशोऽवगम्यते। स्वभानो ह्येष नञः, यदयं येन येन संबध्यते तस्य तस्याभावं बोधय तीति। अतो विधिसंबन्धे ना इष्यमाणे एतावान् वाक्यार्थोऽवतिष्ठते हननविधि - स्तीति। ततश्च हननस्य 'विधित्वं च स्यात् ॥
[निषेधवाक्यार्थसिद्धान्तः] अत्रोच्यते— 'दध्ना जुहोति' इति होमस्य वचनान्तरचोदितत्वात् 'विधिविभक्तिशक्ति रुपपदं संकामतीति यथा वणितं, एवमिहापि हनने स्वतः प्रवृत्तत्वेन विधिवैफल्यात् ननश्च श्रूयमाणस्यानर्थक्यप्रसङगात् विधायिका शक्तिः नर्थमेव स्पृशतीति किं नेष्यते?
प्रत्ययानां प्रकृत्या साकमन्वयस्य प्रथममेव प्रतीतेः॥ * हननस्य साक्षाद्विधिनैवान्वयात् ॥
1 विध्यानर्थक्यात्-ख, । निषिद्धत्व-ग, विधि-ख.
तेनेति-क-घ.
त्मनः-क-ध।