________________
115
'पञ्चममाह्निकम्
तत्रासौ कल्प्यमानोऽपि नरकादिफलोदयः। अवैधत्वं प्रपद्येत न ह्याकाङक्षेदृशी विधेः ।। विधेरपेक्षे द्वे एव नियोज्य विषयौ प्रति । तत्पूरणेन तृप्तस्तु न वांछति ततोऽधिकम् ॥ नियोज्यस्ताव देतावान् क्रुद्धोऽरिहननोद्यतः । विषयस्तन्निवृत्तिश्च नियोगो यत्र गम्यते ॥
[निषेधस्थले निर्वाहक्रमः] 'नन ! एतावन्न विबध्यामहे निषेधविधः को विषय इति । 'भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत' (जै-सू-2-1-1) इति स्थिते नार्थस्तावत्
पूर्वापरीभूतत्वाभावात् न विधेविषयः, अनन्विताभिधानाच्च । न हि नोऽनन्तरं लिङविभक्तिः श्रूयते, अपि तु हन्तेः। हननमपि न विधे. विषयः, तस्य धर्मवप्रसगात् , नञ्प्रयोगस्य वैयर्थ्यप्रसक्तेः। हनने च पुरुषस्य स्वतः प्रवृत्तेश्च। नविशिष्टोऽपि न हन्त्यर्थोऽस्य विषयः, तयोविशेषणविशेष्यभावाभावात् ।।
युक्तं दध्ना जुहोतीति होमे दध्यनुरक्तता।
हन्तेः स्वरूपनाशात्तु न नअर्थानुरक्तता ॥ · पुरुषप्रयलोऽपि न केवलो विधेविषयः, स्वतास्सिद्धत्वात् । नापि नत्रर्थानुरक्तः, 'कुत्रापि नअर्थस्य विशेषणत्वानुपपत्तेः।।
* अधिकं-प्रत्यवायहेतुत्वम् ॥ " यागादिवत् क्रियाप्रतीतेस्तत्राभावात् किं विषयकस्तत्र विधिः ? * धातु विधिप्रत्ययार्थयोर्मध्ये कथं नजर्थस्य निवेशसंभवः?
हननस्य धंसरूपस्य नथै एवान्वये वस्तुन उन्मजनमेव प्राप्नोति ॥
1 विषय-क,
'देवान्यः-क.
' तत्रापि-ख,