________________
114
न्यायमञ्जरी ज्योतिष्टोमेऽनुल्लंघितनिषेधोऽधिकारी, स्वर्गस्यानिषिद्धत्वात् । श्येने तु हिंसायाः प्रतिषिद्धत्वात् उत्क्रान्तनिषेधोऽधिकारीति चेतमैवम्-अधिकारिदशायामपि भवन्मते विधेः प्रयोक्तृत्वानपायात् न निषेधशास्त्रमवकाशं लभत इति श्येनेऽपि नावधीरितनिषेधोऽधिकारी स्यात् ॥ .
ननु ! न विधिः फले प्रयोज्यं प्रेरयति 'फलं कुरु' इति। कर्मणि.. त्वेनं प्रवर्तयति 'यजस्व' इति । तेनाधिकारिदशायामप्रतिहतो निषेध. शास्त्रावकाशः-आयुष्मन् ! . अस्मत्पक्षमेवा' श्रितोऽसि। फले चेन्न प्रवर्तयति विधिः पुरुष, फलाथित्वादेवैनमुपाये प्रवर्तमानं तत्रापि न प्रेरयेत्। उपायानभिज्ञस्य तु उपायमेव दर्शयत् । यावदप्राप्तं हि विधे विषयः। तदुक्तं-'जानात्येवासौ मयैतत् कर्तव्यं, उपायं तु न वेद' इति। प्रतीतिरपीयमीदृशी 'अभिचरन् यजेत्' इति । 'यदि त्वं शास्त्री येनोपायेन वैरिणं हन्तुमुद्यतः, श्येनेन जहि, श्येनस्तवोपायः' इत्यर्थः । तदलमतिप्रसङगेन ॥
कामाधिकारेषु तावत् न फलाकाङक्षी विधिः। फलं त्वधिकारे हेतुरिति स्थितम् ॥
[निषेधस्थले विध्यर्थः] *प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्पते । निषेध्याद्विष यादेव लब्धत्वादधिकारिणः॥
* श्येनविधिः न प्रत्यवायं बोधयति, 'न हिंस्यात्' इति निषेध एव श्येनस्य प्रत्यवायरूपत्वं वदति ॥
___1 स्थितोऽसि-ख, ४ निषेध्यविष-ख.
त्वशास्त्रीयोपायो न वैरिणं हन्तुमुपायः-ख,