________________
113
पश्चममाह्निकम्
[अग्नीषोमीयादिहिंसाया अधर्मत्वाभाव :] - अत एव अग्नीषोमीहिसाया नाधर्मत्वम्। 'न हिंस्यात् सर्वा भूतानि' इति निषेधः सामान्यशास्त्रम् । सामान्यशास्त्रं च विशेषशास्त्रक्रोडीकृतविषयपरिहारेण प्रवर्तत इति अग्नीषोमीहिंसायाः शास्त्रीयत्वात् न निषेधविधिः अनर्थतां बोधयेदिति ॥ ___ ननु ! श्येनेऽपि शास्त्रीया प्रवृत्तिः। प्रवर्तकत्वं हि विधेः स्वरूपं प्रमाणान्तरविलक्षणम् । नान्वयव्यतिरेकवत्साध्यसाधनप्रतीतिमात्रपर्यन्तो हि विधिव्यापारो भवितुमर्हतीति सर्वत्र विधेः प्रयोक्तृत्वानपायात् । एव मेवचेयं 'प्रवृत्तिः श्येनेन यजेतेति ॥
उच्यते-'प्रवतितोऽहं' इति ज्ञानजननं विधेः प्रेरकत्वम् । तत सत्यं सर्वत्र तुल्यं किरणे च श्येने, इतिकर्तव्यतायां अग्नीषोमीये। बाह्ये तु प्रवृत्तिलक्षणे भौतिके व्यापारे यत्र लिप्सादि प्रकारान्तरमस्ति, तत्र भवत्यपि विधेः प्रयोक्तृशक्तिरुदास्ते, पशुपुरोडाशप्रयाजवत् । तत्रोदासीने विधौ निषेधशास्त्र मवतरति 'न हिंस्यात्' इति ||
[श्येनज्योतिष्टोमादेवैलक्षण्यम्] . यदि तु सर्वत्रैव प्रयोक्तृशक्तिरुदासीना भवेत् , तदा ज्योतिष्टोमान्न विशिष्यत श्येनः; शास्त्रीयायां प्रवृत्ती अग्नीषोमीय 'इव' निषेधशास्त्रस्यानवकाशात् ॥
* तथा च फलभूता हिंसा इयेनादौ। अग्नी पोमीयादौ तु इतिकर्तव्यतायाम् । इतिकर्तव्यताविषयकप्रवृत्तिस्तु शास्त्रादेवेत्युभयोवैलक्षण्यम् ॥
प्रतीते:-क-घ,
मुदाहरति-क.
निषेधवत्-क.