________________
112
न्यायमञ्जरी पुनर्विधेः फलार्थत्वात्। अत एव न तत्र वैधी प्रवृत्तिः, लिप्सयैव प्रवृत्तत्वात्। आह च *तस्य 'लिप्साऽर्य लक्षणा' (ज. सू. 4-1-2) इति । साध्यसाधनमावप्रतिपादनपर्यवसितो हि तत्र विधिव्यापारः, न प्रयोगपर्यवसित इति ॥
[श्येनादेरधर्मत्वे कारणम् ] अत एव श्येनादेरधर्मत्वम्। तत्र हि 'अभिचरन्' इति शत्रा शत्रं वैदिकेनोपायेन जिघांसुरधिकारी दर्शितः तस्य। न तत्र शास्त्र' प्रवर्तकम्। जानात्येवासौ 'मयैतत् कर्तव्यम् , उपायं तु न वेद' इत्येवम्। उपायमात्रमस्योपदिश्यते श्येनः । 'श्यनं कुरु' इति तु न विधिः प्रभवति, जिघांसाया एव तत्र 'प्रवर्तकत्वात्। अतः श्येनादेरधर्मत्वात् तद्व्युदासार्थपदोपादानं 'चोदनालक्षणोऽर्थो धर्मः' (जै-सू-1-1-2) इति ।।
कामाधिकारेषु हीतिकर्तव्यतांशे शास्त्रीया प्रवृत्तिः। यथोक्तं*'क्रत्वर्थो हि शास्त्रादवगम्यते' (शा-भा-4-1-2) इति । भावार्थमात्रस्य हि करणत्वमवगतम् । इतिकर्तव्यतांशस्तु न करणत्वावगतियेलायामुपनिपतित इति तत्र लिप्साया अभावात् शास्त्रमेव प्रवर्तकम् ।।
* तस्य-स्वर्गादेः लिप्सा अर्थलक्षणा-वस्तुस्वभावनिबन्धना। तस्य किमर्थ विधिरित्यत्राह-साध्येत्यादि । प्रयोगः-प्रवर्तनम् ॥
तूपकारकः अर्थः, इतिकर्तव्यता ॥ शत्रा-शतृप्रत्ययेन ॥ $ अतः-कामनाया अप्रवर्तकस्वात् । न हि श्येनः काम्यकर्म ॥
1 लिप्सा-ख,
शास्त्र-क,
३ दिश्यते-ख,
प्रवृत्तत्वातू-ख..
० कारण-ख,