________________
पञ्चममाहिकम्
111 गम्यते । प्रेरकत्वं चापरित्यक्तकार्यभावमित्यन्यतरदत्र शाब्दं रूपं, अन्यतरच्चार्य रूप मिति न भाट्टैरिवास्माभिः प्रत्यये गुरुर्भार आरोपितः॥
[नियोगस्य विषयाधिकारादिकथनम् ] - स चायं नियोगः प्रतीयमानः 'यजेत स्वर्गकामः' इत्यनुबन्धद्वयावच्छिन्नः प्रतीयते । *यज्यादिनास्य विषयानुबन्धो धातुनोच्यते । 'स्वर्गकामः' इत्यधिकारानुबन्धः पदान्तरेणाप्यते। तत्र च स्वर्गकामस्यैवाधिकारो निर्वहति । यदि भावार्थस्य स्वर्ग प्रति साधनत्वमवगम्यते; एवं तहि स्वर्गकामेनवासौ कृतो भवतीति स्वर्गकामपदान्वये प्राक्तन एव मार्गोऽनुमन्तव्यः, न पुनः स्वर्गादिफलप्रदर्शनपूर्वकं विधेः प्रवर्तकत्वम् ,
अस्वातन्त्र्यप्रसङगात्। न हीदृशं शास्त्रस्य दैन्यम्-यत् फलं विना पुंसः प्रवर्तयितुं न शवनोतीति। अन्यथा 'यावज्जीवं यजेत' इत्यादावप्रवर्तकं शास्त्रं स्यात् ।।
- [ नियोगस्य फलशेषत्वाभावः ] कि 'यावज्जीवं' इत्यादिचोदनाः फलशून्या एव ? ओमित्युच्यते । न हि विधिः फलमाकाङक्षति, अपि तु नियोज्यं, विषयं च–कस्य नियोगः ? कुत्र नियोगः? इति। ते एते उभे अप्याकाडाक्षे परिपूर्णे। तत्र-जीवतो नियोगः, यागे च नियोग इति। अतः परं फलकल्पनं. पुरुषबुद्धिप्रभवं भवति, न शास्त्रीयम्। कामाधिकारे तु नियोज्यतैव अन्यथा स्वर्गकामस्य नोपपद्यत इति स्वर्गस्य साध्यत्वमभ्युपगतम्, न
* यज्यादिना धातुना-इत्यन्वयः॥ * अस्वातन्त्र्यं-विधेः फलशेषत्वम् ॥
1 रूप-ख,
परं-क.