________________
110
. न्यायमञ्जरी मिति हि मीमांसकाः। तस्मात् पुनरपि भाट्टपक्षवत् द्वयमापततिप्रेरकश्च विधिः, कार्यरूपश्चानुष्ठेयोऽर्थ इति-* सुखैधितो' निरनुसन्धान इवायुष्मानेवं व्यवहरति। न ह्यन्यः प्रेरकः, अन्यश्चानुष्ठेय इत्युक्तम् । नियोग एव प्रेरकः, नियोग एव चानुष्ठेयः ॥
[प्रेरकत्वकार्यत्वयोरविरोधः ] *कथं द्वरूप्यमस्य शब्दो वदतीति चेत्-मैवम्-प्रेरकत्वमेवशब्दार्थः; आर्थं तु कार्यत्वम्। यतो विधिरेवानुष्ठेयतयाऽवगम्यते 'आचार्याज्ञां करोमि' 'राजाज्ञां करोमि' इति ॥
किमर्थं तर्हि विषयानुष्ठानमिति चेत्-न ह्याज्ञा घटादिवत् स्वरू-. पेण कर्तुं शक्या, अपि तु विषयद्वारकं तत्संपादनम् । 'कमण्डुलं बिभृहि' इत्याचार्येणाज्ञप्तः कमण्डुलं भृत्वाऽऽचार्याज्ञां कृतां मन्यते। 'कटकं गच्छ' इति राज्ञाऽऽप्तः कटकं गत्वा राजाज्ञां कृतां मन्यते । सोऽयं नियोग', एवानुष्ठेयः ॥
ननु ! 'राजाज्ञया करोमि' इत्यपि व्यपदेशो दृश्यते। सचाननुष्ठेया मेवाज्ञां दर्शयति-मैवम्-तत्राप्याजैवानुष्ठेया। प्रेषाणाभिप्रायेण तृतीयानिर्देश इत्येवं केचित् ॥
[नियोगस्यैव शाब्दस्वम् ] अन्ये तु शाब्दं कार्यत्वं नियोगस्य, प्रेरकत्वं त्वर्थादित्याचक्षते ॥
अनुष्ठेयता हि तस्य निजं रूपम्। स्वसिद्धये स तु नियोज्यं नियुजानः प्रेरक इत्युच्यते। तदिदं कार्यत्वं अपरित्यक्तप्रेरकभावमस्याव
* अशिक्षितः अलस इति नर्मोक्तिः॥ + अननुष्ठेयां-अनुष्ठेयभिन्नाम् ॥
1 सुखशायितो-ख,
कथमस्य द्वरूपमन्ये वदन्तीति-ख,
चानु ठेया-ख'