________________
पञ्चमामह्निकम्
109 तदेतदात्मप्रत्यक्षम् । लिङादिश्रवणे सति प्रेरणावगतिः भवति, प्रथमश्रुताच्च लिङादेरसौ न भवति । न च प्रमाणान्तरेण सोऽर्थो दर्शयितुं शक्यते, 'कुर्यात' इत्यस्यार्थः कुर्यादित्यनेनैव प्रतिपाद्यते, न 'प्रकारान्तरेणेत्येवं व्युत्पत्तौ संभवन्त्यामपि यैरगृहीतसस्बन्ध एव लिडादिः स्वरूपसामhनैव प्रेरक इष्यते, तेऽत्यन्तभीरव इत्युपेक्षणीयाः॥
[लिङादिनैव नियोगप्रतीतिः] ननु ! यदि लिङादिव्यतिरेकेण नान्यतो नियोगोऽवगम्यते, कथमसौ *नियोगशब्दात प्रतीयते ? कथं वा नियोशब्दस्य नाम्नोऽप्यर्थः प्रमाणान्त र गोचरः स्यात् ? ..
- अयि साधो ! न नियोगः निपूर्वेण युजिना घनतेन बोधयितुं शक्यते । व्यवहारमात्रमेतत्स्वरूपमाख्यातुमाश्रीयते; यथा तु 'यजेत' इत्येवमादिभ्यः शब्देभ्यः सोऽवगम्यते, तथा नान्यता इत्यत एव न प्रमाणान्तर गोचरो धर्म इत्याहुः ।।
"लिङर्थो हि नियोगो वाक्यार्थः। स एव धर्मः। स च न प्रमाणान्तरगम्य इति॥
. . [नियोगस्यैव प्रेरकत्वं,कार्यत्वं च]
'ननु ! लिङर्थः प्रेरणात्मकोऽयं व्याख्यातः कार्यात्मा चायमनुष्टेयो धर्मः। स एव च वाक्यार्थो युक्तः। कार्येऽर्थे वेदस्य प्रामाण्य
* 'नियोगः' इति नामपदात् ॥ + अन्यतः-'यागः' इत्यादिपदेन ॥
1 प्रमाणा-ख, रा-ख, व्यापारः कार्यमाचष्टे यो-ख.
३ लिड्धर्मो हि-ख,
न च-ख,