________________
108
न्यायमञ्जरी [ नियोगे व्युत्पत्तिप्रदर्शनम् ] आह-भवत्वयं विलक्षणोऽर्थः। स तु प्रमाणान्तरावगम्यश्चेत् , तदुपदर्श्यताम् अयमसावेवंरूप इति । प्रमाणान्तरानवगम्यश्चेत् , कथं शब्दैकगोचरे तत्र संबन्धव्युत्पत्तिः- उच्यते-शब्दैकगोचरस्तु नियोगः, व्युत्पत्तिश्च तत्र सूपपादेव । यो हि 'यजेत' 'दद्यात्' 'जुहुयात्' इति लिङादिभ्यो विधिः प्रतीयते, कथमसौ लिङादी नामगम्य इष्येत ? व्युत्पति- . श्चास्य व्यवहरादवकल्पते। 'गच्छ' 'अधीष्व' इति श्रृण्वन् वृद्धः चेष्ट. मानो दृश्यते। चेष्टा च स्वात्मनि प्रतिकाऽवगमपूर्विका दृष्टा । . प्रत्यक्षदृष्टे चाम्रादौ सुखसाधनतयाऽन्वयव्यतिरेकाभ्यामवगते, तदनु- . स्मरणात् *प्रवर्तमानः कस्मिश्चिदात्माकूते समुपजाते सति भौति कं व्यापार मारभते। स चात्मधर्मः आत्मेव स्वसंवेद्यः ||
[आत्मनः स्वप्रकाशत्वम् ] अहंप्रत्यगम्यो ह्यात्मा; नासौ परस्मै दर्शयितुं शक्यते। न च न 'चर्चयितुं शक्यते । एतावता नानुभूयत इति 'न शक्यते वक्तुम् । परोऽपि टेनमहंप्रत्ययेनानुभवत्येव। तथाऽयमपि भौतिकव्यापारहेतुरात्माकृतविशेषो न प्रमाणान्तरवेद्यो भवति। न च न वेद्यते, तत्संवेदने सति चेष्टाया दृष्टत्वात्। तस्मात्परमपि 'गच्छ' 'अधीष्व' इति शब्दश्रवणे सति चेष्टापन्नं दृष्ट्वा तस्यापि तादृक्प्रेरणावगमोऽनुमीयते । स च शब्दान्तरश्रवणे सत्यप्य दृश्यमानः, लिङादिश्रवणे च सति दृश्य 'मानः तदर्थ एवेत्यन्वयव्यतिरेकाभ्यामवगम्यते इतीयतीयं व्युत्पत्तिः ॥
__ * प्रवर्तमानः-इत्येतदनन्तरं 'प्रथम' इति पूरणीयम् ॥ विशेषः॥
अकूतं-अभिप्राय
दर्शयितु-ग,
'शक्यते-ख,
____1 स तु-ख. • चेष्टा यद्वन्तं-ख, .
' नपास्य दर्यते-घ,
सत्यपि-ख. .