________________
पञ्चममाह्निकम्
107 एव प्रयोगोपाधिनिबन्धन एष 'प्रेषणा ध्येषणादिभेदव्यवहारः। प्रेषणा तु सर्वत्रानुस्यूताऽवगम्यते। तदुक्तम् 'प्रवर्तकत्वं तु शब्दार्थः, सर्वत्रापरित्यागात्' इति । स चायं लिङादीनामर्थः प्रैषो "णिज विलक्षणः प्रतीयते ॥
[णिजर्थवैलक्षण्य लिङर्थस्य] . नन ! प्रयोजकव्यापारे णिच् विधीयते । प्रयोजकव्यापारश्च प्रैषः। • प्रेषे च लोडादयो विधीयन्ते इति णिजर्थ एव लोडर्थः। तथा च 'कुरु, कुरु' इति यो ब्रूते, स कारयतीत्युच्यते-न-प्रतीतिभेदात् । अन्या हि 'करोतु' 'कुर्यात्' इतिप्रतीतिः, अन्या च "करोति' 'कारयति' इति प्रतीतिः। प्रयोजकव्यापारो हि णिजयः, ज्ञापकव्यापारस्तु लिङर्थः। प्रवृत्तक्रियाविषयश्च प्रयोजकव्यापारो णिजर्थः, इहतु *तद्विपरीतः । तत्र हि कार्य *पश्यतः प्रवर्तनम्, इह तु प्रवतितस्य कार्यदर्शनं इति महान् भेदः॥ ___तत्र यथा कुर्वन्तं कारयति, तथैवेहापि प्रेषः प्रवर्तमानं प्रेरयति, नाप्रवर्तमान स्थावरमिति । न हि वनस्पतिरुच्यते 'यजस्व' इति-न-स्थावरादेरयोग्यत्वात्। ब्राह्मणादिस्तु यः प्रेर्यते, असा, वप्रवृत्तक्रिय एव। न हि यजमान एव 'यजेत' इति चोद्यते, किन्तु अप्रवृत्तक्रिय एवेति सर्वथा णिजाद्विलक्षणो लिङर्थः॥
प्रपञ्चार्थमिति वैय्याकरणा अपि। तत्र विधिः हीने निमन्त्रणं ज्यायसा। आमन्त्रण समे। अध्येषणं ज्यायसि यथासंभवं इत्युत्सर्गः ॥
* अप्रवृत्तप्रवर्तन हि विधिः ॥
न ह्यज्ञातकार्ये णिच्प्रयोगसंभवः॥ * यागे प्रवृत्तः यजमानः, पूर्व तु न यजमानः ॥
_1 प्रेरणा-ख,
'लिङर्थ-ख,
कारयति-ख,