________________
106
न्यायमञ्जरी 'प्रेषप्रैष्य संबन्ध इति-स्यादेतदेवम् , यदि वाय्वादिवत् प्रवर्तने कर्ता लिङादिः स्यात्। 'प्रेरितोऽहमत्र':इति तु ज्ञानजनकत्वं विधेः प्रवर्तकत्वम्। स एष प्रवर्तनं ज्ञापयति, *न करोतीति अन्य एवायं क्रियाकर्तृसंबन्धात् प्रेषप्रैष्यसंबन्धः॥
[ज्ञानस्य क्रियाविलक्षणत्वम् ] ननु ! ज्ञानमपि क्रियैव। तत्करणे च पुनरपि स एवायं क्रिया..' कर्तसंबन्धः-मैवम्-कारकज्ञापकयोर्भेदस्य सुप्रसिद्धत्वात् । इह च योऽयं यागपुरुषयोः क्रियाकर्तृसंबन्धः, ततोऽन्यं प्रेषप्रैष्यसंबन्धमुपदर्शयितुं प्रवृत्ताः स्मः। स ततो विलक्षणः प्रदर्शित एव। वैलक्षण्यऽपि तस्य यथाकथंचित् 'नाम क्रियमाणं न वारयामः ॥
[प्रेरणायाः प्रथम प्रतीतिः] भवत्वयमन्यः प्रैषप्रैष्यसंबन्धः। स तु प्रथममवगम्यत इत्येष कुतो निश्चयः? उक्तमत्र-'प्रेषितोऽहम्' इति हि विदित्वा क्रियायां प्रवर्तते। 'आचार्यचोदितः करोमि' इति हि दृश्यते। 'यजेत' इति श्रुते 'नियुक्तो. ऽहम्' इति प्रथममवगच्छति। ततो यजते। तेनायमाद्यः संबन्धः । पाश्चात्यस्तु क्रियाकर्तृसंबन्धः। तत् योऽयं लिडार्थः प्रथममवगम्यते, प्रैषो नाम, सा प्रेरणा, स नियोगः, स वाक्यार्थः ।।
[विधिनिमन्त्रणादीनां वैलक्षण्यम्] ननु! विधाविव निमन्त्रणादिषु लिङलोटावपि स्मर्येते एव–सत्यम् ते तु प्रेरणाया एवौपाधिका अवान्तरभेदाः। सम-हीन-ज्यायोविषय
* प्रवर्तनमित्यनुवर्तते ॥ + विधिनिमन्त्रणामन्त्रणाध्येषणानां प्रेरणारूपत्वेऽपि चतुर्णा - पृथगुपादानं
1 प्रेषप्रेष्य-क,
तन्नाम-ख.