________________
105
पञ्चममाहिकम्
[विधिरूपनियोगस्य लिङर्थत्वम् ] . कः पुनरसावर्थः ? यस्मिन् सति 'नियुक्तोऽहमत्र' इति प्रतिपद्यते पुरुषः, सोऽसावर्थः। स एव विधिरित्युच्यते। विधौ हि लिङादिप्रत्ययं स्मरति पाणिनिः, न धात्वर्थे यागादौ, न कर्तृव्यापारे भावनायाम् । विधिश्च नाम प्रेरणात्मक एव । अत एव वर्तमानापदेशिकाख्यातजनितप्रतीतिविलक्षणेयं प्रतीतिः 'यजेत' इति । अत्र हि प्रैषप्रेष्ययोः संबन्धोऽवगम्यते। 'अन्य एवायं क्रियाकर्तृसंबन्धात् प्रैिषप्रेष्यसंबन्धः ॥
_ [अख्यातेन प्रेरणायाः प्राधान्येनोपस्थितिः ]
नन 'यजेत' इति क्रियाकर्तृसंबन्धो ऽवगम्यते ?-न ब्रमः नाव. गम्यत इति; किन्तु प्रेषप्रैष्यलक्षणोऽपि संबन्धः प्रथममवगम्यते। प्रेषितो हि क्रियां कर्तुमुद्यच्छतीति ॥ .. नन! क्रियासंबन्धितयैवासौ प्रेष्यते 'यजतां भवान्' इति-सत्यम्
क्रियासंबन्धितयैव प्रेष्यते। प्रेष्यते तु सः। प्रेष्यते चेदयमन्यं तहि संबन्धः । क्रियासंबन्धात्तु उभयसंबन्धितामस्य राजगवीक्षीरवत् अवगमिष्यामः। यथा गौः राज्ञा च संबध्यते, क्षीरेण च-या राजसंबन्धिनी, सा क्षीरसंबन्धिनी, या क्षीरसंबन्धिनी; सा राजसंबन्धिनीति। एवमिहापि पुरुषः प्रेषितेन च संभन्त्स्यते, क्रियया च । यः प्रेष्यते स करोति; अथ यः करोति, प्रेष्यते स इति ॥
[प्रेरणाया अतिरिक्तत्वम् ] ____ ननु! नेदमुभयं भवति-प्रेषोऽपि क्रियेव । प्रवर्तनं हि कुर्वन 'प्रवर्तयति' इत्युच्यते। सोऽयं क्रियासम्बन्ध एव भवति । न ततोऽन्यः
प्रेयंप्रेरकभावरूपः संबन्धः।। * प्रेषितं-प्रेषणा॥
1 किमन्यश्चात्र क्रियाकर्तृसंबन्धो-ख.