________________
104
न्यायमञ्जरी [भावनाद्वयसद्भावे न प्रमाणमस्ति ] किंच कस्यानुरोधेन द्वे भावने प्रत्ययवाच्ये इष्यते ? -उच्यतेलिङादिशब्दश्रवणे सति कार्ये च, प्रेरणायां च बुद्धिरुत्पद्यत इति ।
यद्येवं एक एव तादृशोऽसौ लिङर्थों भवतु। तदेकत्वाच्च न परस्परसमन्वयः चिन्तयिष्यते । न च प्रत्ययेऽप्यतिभार आरोपयिष्यते॥
[नियोगवाक्यार्थविचारः] ननु ! एकस्यापि लिङर्थस्य यदि शब्द: कार्यत्वं, प्रेरणां च ब्रवीति, ततस्तदवस्थ एवातिभारः। कशासावेकः कार्यात्मा, प्रेरणात्मा च तस्यार्थः ? उच्यते-यो लिडादिप्रत्ययादवगम्यते, यमभिवदतो न तस्यातिभारः, यत्र न तव्यतिरेकेण प्रमाणान्तरं क्रमते, स *नियोगो नामावाक्यार्थः। तथा हि- वृद्ध व्यवहारतः शब्दानामर्थे व्युत्पत्तिरित्यत्र तावदविवाद एव । व्यवहारे च वाक्यार्थे वाक्यस्य व्युत्पत्तिः, वाक्येन सर्वत्र व्यवहारात्। तत्र 'यजेत' इत्यादितिङन्तपदयुक्तेषु पदान्तराणामर्थस्तावदास्ताम् । आख्यातार्थे . ह्यवगते. तदानुगुण्येनासौ स्थास्यति। आख्यातस्य च 'यजेत' इत्येवमादेरर्थः परीक्ष्यमाणः प्रेरणा त्मक एवावतिष्ठते; यतः पदान्तरसन्निधाने सत्यपि न प्रेरणाबुद्धिरुपजायते। आख्यातपदश्रवणे च सति सा जायते। तस्मात् तस्यैव प्रेरणात्मकोऽर्थः । तत्रापि तु जुहोत्यादिधात्वन्तरोपजननापायपर्यालोचनया धातोस्तत्प्रतीतौ व्यभिचारात्, प्रत्ययस्य चाव्यभिचारात् तस्यैव सोऽर्थ इति गम्यते ॥
* तथा च कार्यरूपत्वात् प्रेरणारूपत्वाच्च नियोगस्य न गौरवम् ॥ ,
1 द्विरूत्पद्यते मतिः-ख,
शिष्यते-ख,
३ शब्द-ख.