SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पञ्चममाह्निकम् 103 भावनामभिधास्यते? शब्दभावनां च करिष्यति ? तां च वदिष्यति ? इति दुर्वहोऽयं भारः ।। [शब्दभावनायाः वान्यार्थे अन्वयासंभवः ] कश्चायं शब्दभावनानामधेयस्य विधेर्वाक्यार्थे * भावनायामन्वय इति वक्तव्यम् ।। ननु उक्त एव एकप्रत्ययाभिधेयत्वलक्षणः संबन्ध इति-न बम आभिधानिकः संबन्धो नोक्त इति। किन्तु पुरुषव्यापारात्मिकाया अर्थभावनायाः प्रधानत्वेन वाक्यार्थत्वात, तदपेक्ष्यमाणफलकरणेतिकर्तव्यतांश 'पूरणन' स्वर्गकामादिपदान्तराभिधेयोऽर्थः समन्वेति, गणत्वेन। शब्दव्यापारस्तु तदपेक्षितमन्यतममपि नाशं पूरयितुमलमिति तत्र न गुणतामवलम्बते । न च द्वयोः प्रधानयोः घटः पट इतिवद्वा, पचति पठतीतिवद्वा संबन्ध उपलभ्यते॥ • . [भावनयोः गुणप्रधानभावसंभवः] अथार्थभावना शब्दभावनाख्यविधेविषयसमर्पणेन गुणतामवलम्बते ; विधिस्तहि वाक्यार्थः, न भावना, तस्या अप्राधान्यात् । अतो भावनाद्वयं प्रत्ययार्थ इति न हृदयंगममेतत् ॥ - एकाभिधानाभिधेयत्वं च न भावनयोरन्योन्यसमन्वये कारणम् ; अक्षा:-पादाः-माषा इत्यादावदर्शनात् ।। - * विधिवाच्यार्थभावनया साकं कथमन्वयः ? * गुणत्वेन तदङ्गत्वेन ॥ द्वयोः-पुरूषव्यापारशब्दव्यापारयोः ॥ 1 प्रधानत्वात्-क, परिपूरणेन-क.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy