SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 102 न्यायमञ्जरी _ [शब्दभावनायाः वाक्यार्थत्वविचारः] __ तदेतदननुमन्यमाना अन्ये प्रचक्षते-योऽसौ शब्दभावनाख्यः शब्दव्यापारः शब्दस्य कार्योऽभिधेयश्च, तमभिदधतः कुर्वतो वा शब्दस्य व्यापारान्तरमस्ति, न वा? यदि तावन्नास्ति, तदेष व्यापारान्तरनिरपेक्षस्वव्यापारमिवार्थमपि वदतु, विश्राम्यतु *व्यापारकल्पना। अस्ति चेदस्य तदभिधाने व्यापा.. रान्तरं, तदाऽनवस्थाप्रतीकारः कश्चिदन्वेषणीयः। न जासौ दूरादपि लभ्यते। भूतपरिस्पन्दव्यतिरिक्तव्यापारनिरासश्च प्रमाणसामान्यलक्षणे विस्तरेण कृतः इत्यसौ मार्गः इहाप्यनुसरणीयः ॥ यश्चासौ व्यापारः क्रियते चाभिधीयते च, स कि पूर्वमभिधीयते, ततः क्रियते? पूर्व वा क्रियते, पश्चादभिधीयते? युगपदेव वा करणा. भिधाने इति ॥ ___ न तावत् पूर्वमभिधीयते ततः क्रियते--अनुत्पन्नस्याभिधानानु. पपत्तेः। न ह्यजाते पुत्रे नामधेयकरणम्। अर्थासंस्पर्शी च तथा सति शब्दः स्यात् ॥ अत एव न युगपदुभयम् , अनुत्पन्नत्वानपांयात् प्रयत्नगौरवप्रसङगाच्च। नापि कृत्वाऽभिधानम्, दिरम्यव्यापारासंवेदनात् ।। [लिङादिभिः शब्दभावनाप्रतीत्यसंभवः ] अपि चायं तपस्वी लिङादिः प्रत्ययः सत्यपि गोबृन्दारकत्वे कथ. ममुमतिबृहन्तं भारं वक्ष्यति ? कर्तारं च तत्संख्यां चाख्यास्यति ? * व्यापारः-शब्दभावनाख्यः॥ असौ-अनवस्थापरिहारः ॥ * गोबृन्दारकः-वृषभश्रेष्ठः ॥ । चेद--ख. धीयते-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy