SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 101 पञ्चममाह्निकम् स चायं व्युत्पादनक्रम ईदृशो व्याख्यातृभिरुपदिश्यते-'इत्थमस्यान्वयः, इत्थमस्येति । वाक्यार्थः पुनर्भावनात्माऽवगम्यमानः एकयैव बुद्धयाऽनेकजातिगुणद्रव्यक्रियाद्यङगकलापकल्माषिततनुरवगम्यते तादृश्यकैवेयं वाक्याद्वाक्यार्थबुद्धिः । यथाह-(श्लो-वा-वाक्य-327) 'भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया। अनेकगुणजात्यादिकारकार्थानुरंजिता ।। एकयैव च बुद्धयाऽसौ गृह्यते चित्ररूपया। पदार्थाहितसंस्कारचित्रपिण्डप्रस्तया' इति ।। - [भावनायाः पूर्णस्वरूपम् ] एक एवायमतिदीर्धः क्रमविकस्वरः सकलाङगपरिपूरितभावनातत्त्व विषयः प्रतिभासः। यथा हि स्थाल्यधिश्रयणात् प्रभृति आ निराकाडक्षौदन निष्पत्तेरे कैवेयं पाकक्रिया-सलिलावसेकतण्डुलावेपनदर्वीविघदृनास्त्रावणाद्यनेकक्षणसमुदायस्वभावा, तथा प्रथमपदज्ञानात् प्रभृति आनिराकाङ्क्षवाक्यार्थपरिच्छेदादेकवेयं शाब्दी प्रमिति: * । आह च 'पदात् प्रमृति या चैषा प्रज्ञा ज्ञातुविजृम्भते । . पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति' इति कृतमतिविस्तरेण ।। सोऽयं वाक्यार्थः भावनानामधेय कर्तृव्यापारः स्वर्गयागादि'रर्थः यस्तु व्यापारः "प्रेष रूपो लिङादेर्वाच्यः कार्ये वा, तं विधि सडिगरन्ते ॥ ____ * भावनाया अखण्डत्वसंपादनायायं क्लेशः वणितः ॥ निष्पत्तावे-क. प्रतीति:-क रुक्त:-क, - 1 इत्थमस्येति-ख. प्रेषग-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy