________________
100 .
न्यायमञ्जरी विधिना स्पृश्यते, न विषयाद्यनुरक्ता। स्वच्छा च न प्रयोगयोग्या भवति । यथा च फलकरणेतिकर्तव्यतांशपरिपूर्तिप्रस्थिता 'प्रयोग'योग्या, न तां विधिः स्पृष्टवान् । अविधिस्पृष्टेषु च धात्वर्थकारकादिषु किमिति सचेताः' पुरुषः प्रवर्तेतेति-उच्यते यद्यपि विधिः अनधिगतधात्वर्थानुरागतया स्वच्छामेव भावनां एकाभिधानत्वात् प्रथम माक्रामति; तथापि तादृशि तस्यां सप्रत्ययप्रवर्त'नात्मक निजस्वरूपनिर्वहणमलभमानो न तावत्येव विरमति, किन्तु परिणीतबालकन्यको वर इव तावद्विलम्बमानः प्रसारितहस्त आस्ते-यावत् सर्वाङगसुन्दरी प्रयोगयोग्या भावना भवति । आह च-(श्लो.वा. वाक्य-171)
*'यद्यप्यंशैरसंस्पृष्टां विधिः स्पृशति भावनाम् । तथाप्यशक्तितो नासौ तन्मात्रे पर्यवस्यति । अनुष्ठेये हि विषये विधिः पुंसां प्रवर्तकः । . . अंशत्रयेण चापूर्णां नानुतिष्ठति भावनाम् ।। . तस्मात् प्रक्रान्त रूपोऽपि विधिस्तावत् प्रतीक्षते । . यावद्योग्यत्वमापन्ना भावनाऽन्यानपेक्षिणी ।।' इति
[भावनायाः वाक्याथै अन्वयप्रकारः] ' सा हि वाक्यान्तरोपातमप्यपेक्षते, प्रकरणान्तराधीतमपि वांछति । कृतिवद्धावलभ्यमपि याचते । अर्थसामर्थ्य गम्यं प्रमाणमपि' स्पृहयति-'इत्येवं विध एष शब्दप्रमाणमहिमेति ॥
* अंशः-फलकरणेतिकर्तव्यताभिः ।।
* 'सुवेणावद्यति' इत्यत्र अर्थसामर्थ्यात् पुरोडाशायवदानाङ्गत्वं लभ्यते ।। तथा च शब्दार्थानामाकाङ्क्षा बहुप्रकारेण शाम्यति ।।
-
___1 प्रवेश-क, मानात्मक-ख,
स चेत्-ख, 5 सर्वांनु-क, घ,
माक्षिपति तथाहि-ख, गम्यमपि-ख, ' इत्येक-ख,