________________
99
पश्चममाह्निकम् हृदयाः सन्तः इति अर्थवादाः प्रवृत्त्यतिशयहेतवः। तेन तद्व्यापार इतिकर्तव्यतांशमस्याः पूरयतीति ।। __ एवं नियोज्यव्यापारो भाव्यः, विषयादिसमर्पकपदव्यापारः करणं, अर्थवादपदव्यापारः इतिकर्तव्यतेति सेयं त्र्यंशा शब्दभावना। सैव च विधिः॥
[विधेः भावनायाश्च सम्बन्धवर्णनम्] न च *विधेर्वाक्यार्थानन्धयलक्षणो दोष आशङकनीयः; एकप्रत्ययो पादानलक्षणया प्रत्यासत्या तदन्वितत्वा वगमात्। आहुश्च(श्लो-वा-वाक्य-79)
'विधिभावनयोस्त्वेकप्रत्ययग्राह्यताकृतः ।
धात्वर्थात् प्रथमं तावत् संबन्धो व्यवसीयते' इति ।। विधिर्भावनायां पुरुषं नियुङक्ते । यथाऽऽह. 'स्वव्यापारे हि पुरुषः कर्तृत्वेन नियुज्यते' (तं-बा-2-2-9) इति ॥ तयोः कथमन्वयः स्यात् ?
[विधेः प्रेरकत्वप्रकारः] ननु च त्वयैवोक्तं धात्वर्थात् पूर्वतरं तद्भावनाया विधेश्च संबधोऽव गम्यते । एकपदोपादानेऽपि धात्वर्थस्तावत् प्रकृत्यंशाभिधेयः । विधिभावने तु द्वे अपि प्रत्ययांशेनाभिधीयते इति । अतश्च *स्वच्छैव भावना
. * लिङ्बोध्यविधेः, आख्यातबोध्यभावनायाश्च विशकलिततयैवोपस्थितत्वेन, प्रकृतिप्रत्ययभावाद्यभावात् आकांक्षाविरहेण कथं तयोर्वाक्यार्थेऽन्वय इत्याक्षेपः॥
+ एकेनैव प्रत्ययेन लिङ्त्वेन विधिः, भाख्यातत्वेन भावना चाभिधीयते ॥ स्वच्छा--केवला धात्वार्थाननुरक्ता ।।
1 तकविता ख.