________________
98
न्यायमञ्जरी *'अभिधां भावनामाहुरन्यामेव लिडादयः' इति ॥ लिङन्तशब्दश्रवणे हि यथा यज्याद्यवच्छिन्नं स्वव्यापार पुरुषोऽधिग. च्छति, तथा 'तदनुष्ठाने प्रेरितोऽहम्' इत्यपि 'प्रतिपद्यते । तेनानुष्ठेयार्थप्रतिपादन इव प्रेरणायामपि शब्दस्य सामर्थ्यात् भावनाद्वयप्रतिपादक लिडादियुक्तं वाक्यमिष्यते। ततः पुरुषव्यापारश्वार्थभावना, शब्दव्यापारश्च शब्दभावनाऽवगम्यते । शब्दव्यापारात्मकत्वाच्च शब्दभावनाशब्देनाभिधीयते। अनवगता च सती न कार्याङगमिति शब्देन साऽभि. धीयतेऽपि। तदुक्तं 'अभिधत्ते करोति च' इति ॥ .
[शब्दभाबनाया अंशत्रयवर्णनम् ] ननु ! शब्दभावनाऽपि भावनात्मकत्वादर्थभावनावदंशत्रयमेपक्षत' एवेति तदस्या दर्शयितव्यम-उच्यते-भाव्यांशे तावदस्याः पुरुषप्रवृत्ति रुपनिपतीति उक्तमेव। पुरुषप्रेरणात्मको हि विधिः शब्दभावनेति तत्साध्या पुरुषप्रवृत्तिरेव तत्र भाव्यतां प्रतिपद्यते। करणांशे तु तस्याः नियोज्यविषय समर्पकपद व्यापारो निविशते। यथा हि यज्यादिना स्वर्गादिर्भाव्यः संपद्यत इत्यर्थभावनायामसौ तत्करणतामवलम्बते, एवमिहापि नियोज्यपुरुषप्रवृत्तिविषयाद्यवगमात् संपद्यत इति तदभिधायकशब्द. व्यापारस्तत्र करणतां प्रतिपद्यते । इतिकर्तव्यांशे तु अर्थवादपदव्यापारोऽस्या अवतिष्ठते। केवलं विधिपदश्रवणे हि सति न तथा प्रवर्तयितुमुत्सहन्ते 'श्रोतारः, यथा अर्थवादजनितबहुप्रकारकर्मप्राशस्त्यज्ञानपरिपोषित
* अन्यां-अर्थभावनातो विलक्षणाम् । शब्दव्यापारत्वात् तस्या 'अभिधां' इत्युक्तिः ॥
+ लिङादिपदज्ञानादिरूपः । लिङ्गवणेन हि 'अयं मां प्रेरयति' इति मन्यते पुरुषः॥
1 शब्दस्य-क, 2 भव्यांशे-ख, ३ समर्पक-ख,
अनुष्ठातार:-क.
.