SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 97 पञ्चममाह्निकम् [लिङादेः प्रवर्तकत्वप्रकारः] न च नाम पदप्रतीतौ वर्तमानापदेशकाख्यातात्पदार्थप्रतीतौ च सत्यां सप्रत्ययोऽप्रवर्तमानः कश्चित् दृश्यत इति लिङादिरेव शब्दः प्रवर्तकाभिधानद्वारेण प्रवर्तको भवितुमर्हति । शब्दस्य च ज्ञापकत्वात् चक्षुरादि कारकवैलक्षण्ये सत्यपि प्रतीतिजन्मनि करणत्वमपरिहार्यम्। करणं च कारकं च न निापारं स्वकार्यनिर्वृत्तिक्षममिति व्यापारस्तस्यावश्यंभावी। लिङादेश्च शब्दस्य न प्रतीतिजन्ममात्रे व्यापारः, किन्तु पुरुषप्रवृत्तावपि, तथाऽवगमात् । लिङा अर्था वगमे सति प्रवृत्तिात इति तत्रापि लिङव्यापारः प्रभवति । स चायं लिङादिव्यापारः शदभावनानामधेयो विधिरित्युच्यते । स एव प्रवर्तकः ॥ [ भावनाया द्वैविध्यम् ] .. इह हि लिङादियुक्तेषु वाक्येषु द्वे भावने प्रतीयते-शब्दभावना, अर्थभावना चेति ॥ तत्र अर्थभावना तावत् धात्वर्थातिरिक्तप्रयोजकव्यापारात्मिका दशितव। यो भवनक्रियाकर्तृविषयः प्रयोजकव्यापारः पुरुषस्थः, यत्र भवनक्रियायाः *कर्ता स्वर्गादिः कर्मतामापद्यते, सोऽर्थभावनाशब्देनोच्यते। व्याख्यातश्चासौ॥ . [भावनाद्वयस्वरूपम्] यस्तु शब्दगतः प्रयोजकव्यापारः, यत्र पुरुषप्रवृत्तिः साध्यतां प्रतिपद्यते, सा शब्दभावना। तथा ह्य क्तम् ___* कर्तृत्वं चानाश्रयत्वरुपम् । स्वर्गो हि यागेन भवति ॥ __1 ननु नाम-खः लिङर्था-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy