________________
96
न्यायमञ्जरी
[श्रेयस्साधनत्वस्य प्रवर्तकत्वपक्षः] 'एतदपि न पेशलम् । उपजात प्रवृद्धतररागस्या पि*काम्यमनोपायपरिच्छेदमन्तरेण प्रवृत्त्यनुपपत्तेः न हि स्वर्गकामः सांग्रहिणीमनुतिष्ठति । तद्वरं श्रेय स्साधनत्वं प्रवर्तकम्। लोकेऽपि चैवमेव व्यवहारो दृश्यते । हरीतक्यादीनामारोग्यसाधनतां वैद्याचार्यचोदनातोऽवगत्य तदुपयोगादा वातुरजनः प्रवर्तते। तृप्तिसाधनतामोदनस्य मन्यमानः तद्भक्षणाय बक्षितः प्रवर्तते-इति श्रेयस्साधनत्वमेव प्रवर्तकम् ॥
__ [विधिप्रत्ययादेः प्रवर्तकत्वपक्ष;] एतदपि न चतुरस्रम्-श्रेयस्साधनत्वं ह्यनवगतमवगतं वा प्रवर्तक भवेत् ? नानवगतम् , अव्युत्पन्नस्य प्रवृत्तेरदर्शनात् । यो हि हरीतकीनामारोग्यहेतुतां न कुतश्चिदधिगतवान्, नासौ तदर्थ्यपि तामुपयुङक्ते । तस्मात् तद्वोधहेतुः प्रवर्तकः । स च दृष्ट विषयेऽन्वयव्यतिरेकादेरपिसंभवति, किं तेन ? अदृष्टे तु विषये श्रेयस्साधनाधिगमः शब्दकनिबन्धन इति तदधिगमोपायः "शब्द एव प्रवर्तकः । अत एव' शब्दोऽपि न स्वरूपमात्रेण प्रवर्तकः, वाय्वादितुल्यत्वप्रसङगात्।. यदि हि पवन इव, पिशाच इव, कुनृप इव शब्दः प्रवर्तको भवेत् , अनवगतशब्दार्थसम्बन्धोऽपि श्रवणपरवशः प्रवर्तेत, न चैवमस्ति। तस्मादप्रतीतिमुपजनयतः शब्दस्य प्रवर्तकत्वम् ॥
* अयमेवात्रोपाथ इति निश्चय: उपायपरिच्छेदः ।।
श्रेयस्साधनत्वबोधे हेतुः विधिरूपः शब्दः।। * लडाख्यातादेः॥
1 उपनात-ख, • भुक्त-क,
' स्साधन-ख, शब्द एव-क.
तदुपायादा-ख.