________________
पञ्चममाह्निकम्
95 'यजेत' इति प्रेरणा प्रतीयमाना साध्यसाधनसम्बन्धमनव बोधयति' विधौ न निर्वहतीति तत्कृतस्तदवबोध उच्यते। निषेधे च 'न हन्यात्' इति निषेध्यमानस्य भावार्थस्यानर्थतामनवबोधयन् विधिः न रागतःप्रवर्तमानं पुमांसं निरोद्धमुत्सहत इति विधेयवनिषेध्येऽपि तस्यैव व्यापार इत्यवश्याश्रयणीयो विधिः ॥
यश्चेष पर्यनुयोग:-किमर्थं विधिराश्रित इति-स तु खलु सरलमतिकृत इव लक्ष्यते। न हि वयमद्यकृतविधिमाश्रयेम, जहीमो वा। प्रतिपत्तारो हि वयं वेदस्य, न कर्तारः। तत्र च सविधिकानि 'यजेत स्वर्गकामः' इति प्रभृतीनि श्रूयन्ते। तेषां मीमांस्यमानोऽर्थ ईदृगवतिष्ठते। स्वर्गः साध्यः, यागः साधनमिति । स चायं विधिसामर्थ्यलभ्य इति युक्तं विधेराश्रयणम* ॥
[कस्य प्रवर्तकत्वं युक्तम् , प.लस्य, तद्ज्ञानस्य धा ? ] यत्तु प्रवर्तकस्वरूपानिश्चयाद्विधेरनिश्चय इति-तत्राप्युच्यते-फलं तावन्न प्रवर्तकम, सिद्धयसिद्धिविकल्पानुपपत्तेः। सिद्धस्य फलस्याप्रवर्तकत्वं सिद्धत्वादेव। न हि यत् यस्यास्ति, स तदर्थं यतते। नाप्यसिद्धस्य खरविषाणप्रख्यस्य फलस्य प्रवर्तकत्वं युक्तम् , अदृष्टत्वात् ।। . अथ कामनाविषयीकृतं फलं प्रवर्तकमिष्यते-सेयं कामनैव प्रतिका . भवति, न फलम् । तस्माद्रागादिः प्रवर्तक इत्याहुः ॥
- * मातापितृसहनेभ्योऽपि हि वत्सलतरं शास्त्र पुरुषं न केदाऽपि विप्रलम्भयेदित्ययमंशः विधिश्रवणेन दृढीक्रियत इति विधिरावश्यक इति सारम् ॥
1 बोधयन्ती-ख.
न फलम्-ख,