________________
94
न्यायमञ्जरी पुरुषः प्रयत्नशत प्रेर्यमाणोऽपि सप्रत्ययः प्रवर्तते। प्रवर्तमानेऽपि पुंसि प्रवर्तकत्वाख्यनिजस्वरूप संकोचमाशङकमानः विधिः पुरुषार्यस्वभावं स्वर्ग साध्यतया व्यवस्थापयति, यागं चास्य साधनतयेति । एवं शवबोधयतोऽस्य प्रवर्तकत्वं निर्वहति ।।
__ [ फलोपदेशमात्रान्न प्रवृत्तिः] यत्तु दशितेऽपि स्वर्गादौ फले न प्रवर्तते चेत्पुरुषः किं विधिः कुर्या. . दिति-तदप्युक्तम्-न हि वाय्वादिवत् पुरुषस्य प्रवर्तको विधिः । वाय्वादिः खलु सप्रत्ययमपि तदितरमपि प्रवर्तयति। विधिस्तु सप्रत्ययस्यैव प्रवर्तकः। सप्रत्ययस्य चैतावत् प्रवर्तनं, . यत् . प्रतितोऽहमिति ज्ञानजननम्। न च फलमदर्शयता विधिना 'सप्रत्ययस्यदृशं ज्ञानं जनयितुं शक्यम् । . फले तु दशिते सति तदस्य ज्ञानं जनितमेव। अनेन 'जनितं चेत ज्ञानं प्रमाणवृत्तेन प्रवर्तित एवासौ विधिना पुरुषः। आलस्यादिनानिथित्वेन वा बहिःप्रवृत्ति पर्यन्ततया चेन्न प्रवर्तेत-मा प्रतिष्ट! विधिना तु स्वकर्तव्यं कृतम्, 'प्रवर्तितोऽहमिति ज्ञानजननात्। अन्यो हि प्रवर्तनावगमः, अन्यश्च बाह्यो व्यापारः॥
[विधेरेव साध्यसाधनभावावगमः] एवं विधिवशादेव साध्यसाधनभावधीः । सा हि प्रथमनिर्वृत्तप्रेरणाज्ञानपूर्विका ||
* साध्यसाधनाद्यनवबोधे हि प्रवर्तकत्वं संकुचितमेव भवेत् ॥ + बाह्यः-शारीरकंः॥
' पुरुषः-ख, " प्रवर्तमानेऽपि-ख, ३ सप्रत्ययस्य-ख, ' जनिते ज्ञाने-ख, प्रज्ञप्ति-घ, प्रवर्तितः पुरुषः-क, घ.