________________
93
पञ्चममाह्निकम्
बाढं श्रुतोऽयं श्लोकः । किन्तु कोऽसावप्रवृत्तप्रवर्तक इति न जानीमः; प्रवर्तकस्वरूपे हि संशेरते प्रवादुका इति ॥
[प्रवर्तकस्वं कस्येति विमर्शः] कि लिडादिः शब्द एव प्रवर्तकः? तद्व्यपारो वा? तदर्थो वा नियोगः' ? फलं वा स्वर्गादिः ? श्रेयस्साधनत्वं वा?, रागादिर्वा ? प्रवर्तकस्वरूपानवधारणाद्विधेरप्यनधारणमिति ।।
यत्तावदुक्तं कि विध्याश्रयणेनेति-तत्रोच्यते- यदयं साधनत्वेन यजेरभिहितोऽन्वयः ।
. स्वर्गस्य च फलत्वेन स एव महिमा विधेः ।। विधिवचनमन्तरेण हि 'स्वर्गकामो यजेत' इति *पुरुषलक्षणार्थस्वर्गकामशब्दः, शुक्लो होतेतिवत् स्यात् । तदा चैकपदोपादानलक्षण प्रत्यासत्तिसम्बन्धनिसर्गघटितपूर्वापरीभूतस्वभावधात्वर्थसाध्यतातिक्रमण दूरात् स्वर्गस्य साध्यत्वं अन्यत्रोपसर्जनीभूतस्य कथं कल्पयितुं शक्यते ? तस्मादेष विशिष्टः साध्यसाधनसम्बन्धः विधिप्रसादलभ्य एव भवति, नान्यथेति विधिराश्रयणीयः ।।
विधेरावश्यकता .. कथं पुनविधिरप्य, साध्यसाधनभावं बोधयति? इत्थं बोधयति -~स हि सप्रत्ययप्रवर्तकस्वभावः। न चापुरुषार्थरूपे ब्यापारे
* स्वर्गकामपदस्य बहुव्रीहित्वात् लक्षणया पुरुषः अर्थः ॥ * ऋत्विजां मध्ये शुक्लवर्णः होतुः यथा क्वचित् ज्ञापकः, तथा॥ * अन्यत्र-कामनायाम् ॥ 8 सप्रत्ययः-ज्ञानादिमान् ॥
-
1 विनियोगः-ख.
.